SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ।२९९॥ दशमः सर्गः श्रीमहावीरजिनचरितम् । तदाऽऽयान्ती पुरे तस्मिन् विक्रेतुं दधिसर्पिषी । शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत्पुरः ।। १६०॥ शालिभद्रं च सा प्रेक्ष्य संजातप्रस्नवस्तनी । वन्दित्वा चरणौ भक्त्या द्वाभ्यामपि ददौ दधि ।। १६१ ।। श्रीवीरस्यान्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽवदत् स्वामिन् ! मातृतः पारणं कथम् ? ||१६२ ॥ सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्रमहामुनेः । प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ।। १६३ ।। कृत्वा पारणकं दध्नाऽऽपृच्छय च स्वामिनं ततः । वैभाराद्रिं ययौ शालिभद्रो धन्यसमन्वितः ॥ १६४ ।। शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत् ।। १६५ ।। तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिके ।। १६६ ॥ ततो भद्राऽवदद्धन्यशालिभद्रौ क्व तौ मुनी । भिक्षार्थं नागतौ कस्मादस्मद्वेश्म ? जगत्पते! ।।१६७ ॥ सर्वज्ञोऽपि बभाषे तौ त्वद्वेश्मनि गतौ मुनी । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥१६८ ।। प्राग्जन्ममाता त्वत्सूनोर्धन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ ।। १६९ ।। उभावपि महासत्त्वौ सत्वरौ भवमुज्झितुम् । वैभारपर्वते गत्वाऽनशनं तौ प्रचक्रतुः ।। १७० ।। श्रेणिकेन समं भद्रा वैभाराद्रिं ययौ ततः । तथास्थितावपश्यच्च तावश्मघटिताविव ।। १७१ ॥ तत्कष्टमथ पश्यन्ती स्मरन्ती तत्सुखानि च । साऽरोदीद्रोदयन्तीव वैभाराद्रि प्रतिस्वनैः ।। १७२ ।। आयातोऽपि गृहं वत्स! मयका स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाप्रसादं मा कृथा मयि ।। १७३ ।। शालिभद्रधन्ययोः चरित्रम् । IR९९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy