SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व दशमः त्रिषष्टिशलाकापुरुषचरिते I२९८॥ सर्गः श्रीमहावीरजिन चरितम् । सदारः सोऽग्रहीद्दीक्षां ततो भगवदन्तिके । तच्छुत्वा शालिभद्रोऽपि जितमन्यः प्रतत्वरे ।। १४७ ।। सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद् व्रतम् ।। १४८ ॥ ततः सपरिवारोऽपि स्वामी सिद्धार्थनन्दनः । विहरन्नन्यतोऽगच्छत् सयूथ इव हस्तिराट् ।। १४९ ॥ धन्यश्च शालिभद्रश्च तावभूतां बहुश्रुतौ । महत्तपश्च तेपाते खड्गधारासहोदरम् ।। १५० ।। पक्षान्मासाद् द्विमासात्त्रिमास्या मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारणं मुनी ।। १५१ ॥ तपसा समजायेतां निर्मासरुधिरांगकौ । चर्मभस्त्रोपमौ धन्यशालिभद्रमहामुनी ।। १५२ ।। अन्येधुः श्रीमहावीरस्वामिना सहितौ मुनी । आजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥१५३ ।। ततः समवसरणस्थितं नन्तुं जगत्पतिम् । श्रद्धातिशययोगेनाच्छिन्नमीयुर्जनाः पुरात् ।। १५४ ॥ मासपारणके धन्यशालिभद्रावुभावपि । काले विहर्तुं भिक्षार्थं भगवन्तं प्रणेमतुः ।।१५५ ।। मातृपा/त्पारणं तेऽद्येत्युक्तः स्वामिना ततः । इच्छामीति भणन् शालिभद्रो धन्ययुतो ययौ ।। १५६ ॥ गत्वा भद्रागृहद्वारि तावुभावपि तस्थतुः । तपःक्षामतया तौ च न केनाप्युपलक्षितौ ।। १५७ ॥ श्रीवीरं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासीदुत्सुका न तौ ।। १५८ ।। क्षणमेकमवस्थाय तत्र तौ जग्मतुस्ततः । महर्षी नगरद्वारप्रतोल्याऽथ निरीयतुः ॥ १५९ ॥ १ जितम° ।२ सह तौ । ३ "रणा । शालिभद्रधन्ययोः चरित्रम् । ।२९८॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy