________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२९७ ॥
शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे ।। १३३ ।। त्यज भोगान् क्रमान्मर्त्यमाल्यगन्धान् सहस्व च ! इत्यभ्यासाद् व्रतं वत्स ! गृह्णीया इत्युवाच सा ।। १३४ ।। शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने ।। १३५ ।। इतश्च तस्मिन्नगरे धन्यो नाम महाधनः । अभवच्छालिभद्रस्य कनिष्ठभगिनीपतिः ।। १३६ ।। शालिभद्रस्वसा साश्रुः स्नपयन्ती च तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् ।। १३७ ॥ व्रतं गृहीतुं मे भ्राता त्यजत्येकां दिने दिने । भार्यां च तूलिकां चाहं हेतुना तेन रोदिमि ।। १३८ ॥ य एवं कुरुते फेरुरिव भीरुस्तपस्व्यसौ । हीनसत्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम् ।। १३९ ।। सुकरं चेद् व्रतं नाथ क्रियते किं न हि स्वयम् । एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः ।। १४० ।। धन्योऽप्यूचे व्रते विध्नो भवत्यस्ताश्च पुण्यतः । अनुमंत्र्योऽद्य मेऽभूवन् प्रव्रजिष्यामि तद् द्रुतम् ॥ १४१ ।। ता अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा स्म त्याक्षीः श्रियोऽस्मांश्च मनस्विन्नित्यलालिताः ।। १४२ ।। अनित्यं स्त्रीधनाद्येतत्प्रोज्झय नित्यपदेच्छ्या । अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ।। १४३ ।। त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः ।। १४४ ॥ इतश्च वैभारगिरौ श्रीवीरः समवासरत् । विदाञ्चकार तं सद्यो धन्यो धर्मसुहृद्गिरा ।। १४५ ।। दत्तदानः सदारः सोऽप्यारुह्य शिबिकां ततः । भवभीतो महावीरचरणौ शरणं ययौ ॥ १४६ ॥
दशमं पर्व दशमः सर्गः
श्रीमहावीर
जिनचरितम् ।
शालिभद्रधन्ययोः
चरित्रम् |
।।२९७ ॥