________________
दशमं पर्व
दशमः
त्रिषष्टिशलाकापुरुषचरिते ।।२९६॥
सर्गः
श्रीमहावीरजिनचरितम् ।
सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शति भूपतिः ।। ११९ ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालंकारवस्त्राद्यैरचिंतश्च गृहं ययौ।। १२० ॥ इयेष शालिभद्रोऽपि यावत्संसारमोक्षणम् । अभ्येत्य धर्मसुहृदा विज्ञप्तस्तावदीदृशम् ।। १२१ ।। आगाच्चतुर्ज्ञानधरः सुरासुरनमस्कृतः । मूर्तो धर्म इवोद्याने धर्मघोषाभिधो मुनिः ।। १२२ ॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंश्चोपाविशत्पुरः ।। १२३ ।। स सूरिर्देशनां कुर्वन्नत्वा तेनेत्यपृच्छयत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? ।। १२४ ।। भगवानप्युवाचैवं दीक्षां गृह्णन्ति ये जनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ।। १२५ ॥ यद्येवं नाथ ! तद्गत्वा निजामापृच्छय मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ।। १२६ ।। न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रो गृहं गत्वा भद्रां नत्वेत्यभाषत ।। १२७ ।। धर्मः श्रीधर्मधोषस्य सूरेरद्य मुखाम्बुजात् । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः ।। १२८ ।। अकार्षीः साध्विदं वत्स ! पितुस्तस्यासि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ।। १२९ ।। सोऽप्यवोचदिदं मातरेवं चेत्तत्प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ।। १३० ।। साऽप्यवोचदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किं त्वत्र लोहचणकाचर्वणीया निरन्तरम् ।। १३१ ।। सुकुमारः प्रकृत्याऽपि दिव्यैर्भोगैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? ।। १३२ ।।
शालिभद्रधन्ययोः चरित्रम् ।
२९६॥