________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ।२९५॥
दशमः सर्गः श्रीमहावीरजिनचरितम् ।
अम्ब ! त्वमेव यं वेत्सि तमर्थं कारय स्वयम् । किं मया तत्र कर्तव्यं स भद्रामित्यवोचत । १०५ ॥ ततो भद्राऽप्युवाचैवं क्रेतव्यं वस्तु न ह्यदः । किं त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥१०६ ।। तच्छ्रुत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्यं यन्ममाप्यपरः प्रभुः ।। १०७ ।। भोगिभोगैरिवैभिर्मे भौगैरलमतः परम् । दीक्षां मंक्षु ग्रहीष्यामि श्रीवीरचरणान्तिके ।। १०८ ॥ एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमद्विनयान्वितः ॥१०९ ॥ सस्वजे श्रेणिकेनाथ स्वांके सुत इवाऽऽसितः । स्नेहाच्छिरसि चाऽऽघ्रातः क्षणादश्रूणि सोऽमुचत् ।। ११०॥ ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मनुष्यमाल्यगन्धेन मानुषोऽप्येष बाध्यते ।। १११ ।। देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्त्रांगरागाादीन् प्रतिवासरम् ।। ११२ ।। ततो राज्ञा विसृष्टः स ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ।।११३ ।। भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत्सर्वं श्रीमतां किं न सिद्ध्यति ? ||११४ ।। सस्नौ स्नानीयतैलाम्बुचूर्णैस्तूर्णं ततो नृपः । अंगुलीयं तदंगुल्या गृहवाप्यां पपात च ।। ११५।। यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशदासी वाप्यम्भोऽन्यत्र नाट्यताम् ।। ११६ ।। तथा कृते तया चित्रदिव्याभरणमध्यगम् । अंगारामं स्वांगुलीयं दृष्ट्वा राजा विसिष्मिये ।।११७।। किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥ ११८ ॥
शालिभद्रधन्ययोः चरित्रम् ।
।२९५॥