SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR९४।। दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । | राज्ञाऽप्यथैकं मूल्यन कम्बलं वणिजोऽर्थिताः । भद्रा जग्राह तान् सर्वान् कम्बलानिति तेऽवदन् ।९१ ॥ श्रेणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः । भद्रापार्श्वे मूल्यदानात् कम्बलादानहेतवे ॥९२ । याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापादप्रोछनीकृतवत्यहम् ।।९३ ॥ कार्य निष्पद्यते किंचिज्जीर्णैश्चेद्रत्नकम्बलैः । तद्गत्वाऽऽपृच्छय राजानमागच्छामून् गृहाण च ।। ९४ ।। आख्यद्गत्वा स तद्राज्ञे राज्यूचे चेलणाऽप्यदः । पश्यास्माकं वणिजां च रीरिहेम्नोरिवान्तरम् ।।९५ ।। तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥ ९६ ॥ बहिर्न हि महीनाथ ! जातु याति मदात्मजः । प्रसादः क्रियतां देव ! तद् गृहागमनेन मे ॥ ९७ ।। कौतूहलाच्छ्रेणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीक्ष्याथ साऽग्रे भूत्वा गृहं ययौ ।। ९८ ॥ विचित्रवस्त्रमाणिक्यचित्रकत्वङ्मयीं ततः । आराजहऱ्या स्वगृहादट्टशोभा व्यधत्त सा ।। ९९ ॥ तयाऽऽहूत ततो राजा कृतां सद्यः सुरैरिव । विभावयन् हट्टशोभा शालिभद्रगृहं ययौ ।। १०० ।। स्वर्णस्तम्भोपरि खदिन्द्रनीलाश्मतोरणम् । मौक्तिकस्वस्तिकश्रेणिदन्तुरद्वारभूतलम् ।।१०१ ।। दिव्यवस्त्रकृतोल्लोचं सुगन्धिद्रव्यधूपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् ।।१०२ ।। तद्विवेश विशामीशो विस्मयस्मेरलोचनः । भूमिकायां चतुर्थ्यां च सिंहासन उपाविशत् ।। १०३ ॥ सप्तम्यां भुवि भद्रेत्वा शालिभद्रमभाषत । इहायातः श्रेणिकोऽस्ति त्वां द्रष्टुं क्षणमेहि तत् ।। १०४ ।। शालिभद्रधन्ययोः चरित्रम् । I२९४||
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy