________________
त्रिषष्टिशलाका
पुरुषचरिते
दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् ।
I२९३॥
दृष्टस्वप्नानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः पित्तरौ शालिभद्र इत्यभिधां शुभाम् ।।७७ ॥ पाल्यमानः स धात्रीभिः पंचभिर्ववृधे क्रमात् । किंचिदूनाष्टवर्षः सन् पित्राऽप्यध्यापितः कलाः ॥७८ ॥ संप्राप्तयौवनः सोऽथ युवतीजनवल्लभः । सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ॥ ७९ ।। तत्पुरश्रेष्ठिनोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ।। ८० ।। अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसंपूर्णाः कन्यकाः पर्यणाययत् ।। ८१ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिर्दिविषदामिव ।। ८२ ।। स विवेदाऽऽनन्दमग्नो न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्री पितरौ स्वयम् ।। ८३ ॥ श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । विधिनाऽनशनं कृत्वा देवलोकं जगाम च ।। ८४ ।। अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्याऽऽवर्जितः सोऽभूत् पुत्रवात्सल्यतत्परः।। ८५ ॥ दिव्यानि वस्त्रनेपथ्यादीनि तस्यानुवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः ।। ८६ ।। यद्यन्मोचितं कार्यं भद्रा तत्तदसाधयत् । पूर्वदानप्रभावेण भोगान् सोऽभुक्त केवलम् ।। ८७ ।। वणिग्भिः कैश्चिदन्येधुर्गृहीत्वा रत्नकम्बलान् । शिश्रिये श्रेणिकस्तांश्च महार्घत्वेन नाग्रहीत् ।। ८८ ।। ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तर्येण तान् भद्राऽप्यग्रहीद्रनकम्बलान् ।। ८९ ॥ मद्योग्यो गृह्यतामेको महामूल्योऽपि कम्बलः । इत्यूचे चेलणादेव्या तदा च श्रेणिको नृपः ।।९० ।।
HASHAASARASHRSSASSAR
शालिभद्रधन्ययोः चरित्रम् ।
२९३॥