________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२९२ ॥
तस्या रुदितदुःखेनानुविद्धहृदया इव । आगत्य प्रतिवेश्मिन्यः पप्रच्छुर्दुःखकारणम् ।। ६३ ।। ताभ्योऽभ्यधत्त सा दुःखकारणं गद्गदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥ ६४ ॥ खंडाज्यपायसैर्भृत्वा स्थालं बालस्य तस्य सा । अर्पयत्प्रययौ चान्तर्गृहं कार्येण केनचित् ।। ६५ ।। अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वत्तारणाय स तस्य नौः ।। ६६ । सोऽचिन्तयदिदं चिन्तामाणिक्यमिव चेतनम् । जंगमः कल्पशाखीव कामधेनुरिवापशुः ।। ६७ ।। साधु साधु महासाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेदृक्पात्रसंगमः ।। ६८ ।। भाग्योदयेन केनापि ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसंगमो ह्ययम् ।। ६९ ।। इति स स्थालमुत्पाट्य पायसं साधवे ददौ । जग्राहानुग्रहकृते तस्य कारुणिको मुनिः ॥ ७० ॥ art च स मुनिर्गेहान्मध्याद्धन्यापि निर्ययौ । मन्ये भुक्तमनेनेति ददौ सा पायसं पुनः ॥ ७१ ॥ तत्पायसमतृप्तः सन्नाकण्ठं बुभुजेऽथ सः । तदजीर्णेन यामिन्यां स्मरन् साधुं व्यपद्यत ॥ ७२ ॥ तेन दानप्रभावेण सोऽथ राजगृहे पुरे । गोभद्रेभ्यस्य भार्याया भद्राया उदरेऽभवत् ॥ ७३ ॥ शालिक्षेत्रं सुनिष्पन्नं स्वप्नेऽपश्यच्च सा ततः । भर्तुः शशंस तस्याः स सूनुः स्यादित्यचीकथत् ॥ ७४ ॥ चेद्दानधर्मकर्माणि करोमीति बभार सा । दोहदं तत्तु गोभद्रः पूरयामास भद्रधीः ।। ७५ ।। पूर्णेकाले ततो भद्रा द्युतिद्योतितदिग्मुखम् । असूत तनयं रत्नं विदूरगिरिभूरिव ॥ ७६ ॥
दशमं पर्व दशमः सर्गः
श्रीमहावीर
जिनचरितम् ।
शालिभद्रधन्ययोः
चरित्रम् |
॥२९२ ॥