________________
त्रिषष्टिशलाकापुरुषचरिते IR९१॥
दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् ।
न केवलं विजेष्येऽमुं व्रतादानेन संप्रति । कर्मारीनपि जेष्यामि भवभ्रमणकारिणः ।। ४९ ।। विवेकी चिन्तयित्वैवं दशार्णपुरभूपतिः । तत्रस्थ एव व्यमुचत् किरीटकटकादिकम् ।। ५० ॥ दशार्णभद्रः कर्मदुमूलानीव समन्ततः । उच्चखानाथ शिरसः पंचभिर्मुष्टिभिः कचान् ।। ५१ ।। शक्रे संपश्यमानेऽथ विस्मयस्मेरचक्षुषि । स गत्वा गणभृत्पाघे यतिलिंगमुपाददे ।। ५२ ॥ गत्वा प्रदक्षिणापूर्वमपूर्वोत्साहसाहसः । दशार्णभद्रश्रमणो जगन्नाथमवन्दत ।। ५३ ।। शक्रो बभाषे महात्मन्नहो किमपि पौरुषम् । तवेदममुनाऽजैषीर्मामप्यन्यस्य का कथा ।। ५४ ।। इत्युक्त्वा तं नमस्कृत्य शक्रः स्वस्थानमभ्यगात् । मुनिर्दशार्णभद्रोऽपि सम्यग्व्रतमपालयत् ।। ५५ ।। जगन्नाथोऽपि भव्यानामुपकारपरायणः । विजहार ततः स्थानादन्येषु नगरादिषु ।। ५६ ।। इतश्च राजगृहस्य शालिग्रामे समाययौ । धन्येत्यभिधया योषित् काचिदुच्छिन्नवंशिका ।। ५७ ।। बालं संगमकं नाम स्वसुतं सा सहाऽऽनयत् । कुक्षिजातमपत्यं हि व्यसनेष्वपि दुस्त्यजम् ।। ५८ ।। सोऽर्भकस्तत्र पौराणां वत्सरुपाण्यचारयत् । अनुरुपा ह्यसौ रोरबालानां मूदुजीविका ।। ५९ ।। अथापरेधुः संजाते तत्र कस्मिंश्चिदुत्सवे । पायसं संगमोऽपश्यद् भुज्यमानं गृहे गृहे ।। ६० ।। गत्वा स्वगेहे जननीं ययाचे सोऽपि पायसम् । साऽप्युवाच दरिद्राऽस्मि मद्गहे पायसं कुतः ।। ६१ ॥ बालेनाज्ञतया तेन याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं तारतारं रुरोद सा ।। ६२ ।।
शालिभद्रधन्ययोः चरित्रम् ।
।२९१॥