________________
त्रिषष्टिशलाकापुरुषचरिते २९०॥
दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् ।
पूर्वारुढसुरस्त्रीभिर्दत्तहस्तावलम्बनः । मर्त्यलोकावतीर्णोऽथाध्यारुरोह पुरन्दरः ॥३५।। ।। त्रिभिर्विशेषकम्।। आगादथोपसमवसरणं भक्तिभावितः । जिनेन्द्रपादान् वन्दारुर्वृन्दारकशिरोमणिः ॥ ३६ ॥ जलकान्तविमानान्तर्लीलापुष्करिणीषु च । संगीतकानि कमले कमले चाथ जज्ञिरे ।। ३७ ॥ | प्रतिसंगीतकं चेन्द्रानुरुपविभवः सुरः । सामाजिकोऽभवद्दिव्यरुपनेपथ्यसुन्दरः ।।३८ ॥ एकैकस्य च देवस्य परिवारो महर्द्धिकः । मघोन इव संजज्ञे विश्वविस्मयकारणम् ।।३९ ।। विमानद्धर्या तया शक्रः स्वयमेव विसिष्मिये । का कथा पुनरन्येषां तस्मादूनोनसम्पदाम् ।। ४० ।। तत्र स्थितैर्नरसुरैर्विस्मितैर्वीक्षितो हरिः । प्रभुं पृथ्वीलुलद्धारः प्रणनाम पुनः पुनः ।। ४१ ।। दशार्णभद्रः शक्रस्य तया ऋद्धयाऽथ दृष्ट्या । नगरा ग्राम्य इव स्तंभितांगोऽभवत् क्षणम् ।। ४२ ।। दशार्णभद्रो दध्यौ च विस्मयस्मेरलोचनः । अहो शक्रविमानस्य शोभेयं भुवनोत्तरा ।। ४३ ।। अहो रुचिरगात्रत्वं सुरेन्द्रकरिणोऽस्य च । अहो विभवविस्तारः पुरुहूतस्य कोऽप्यसौ ।। ४४ ।। स्वसंपदोऽभिमानोऽयं व्यधायि धिगहो मया । मम शक्रस्य चैतद्धि गोष्पदाब्योरिवान्तरम् ।। ४५ ॥ अमुना ऋद्धिगर्वेण स्वात्मा तुच्छीकृतो मया । कूपभेक इवाभूवं प्रागदृष्टेदृशर्द्धिकः ।। ४६ ॥ एवं भावयतस्तस्य वैराग्यं गच्छतः शनैः । परिणामः शुभतरो बभूवेत्यल्पकर्मणः ।। ४७ ॥ ऋद्धया यद्यप्यनेनाहं विजितोऽस्मि बिडौजसा । प्रव्रज्याग्रहणादद्य पराजेष्ये तथाऽप्यमुम् ॥ ४८ ॥
दशार्ण
चरित्रम् ।
I२९०॥