SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ।२८९॥ दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । बन्दिवृन्दैः स्तूयमानो गीयमानश्च गायनैः । दर्श्यमानस्वविज्ञानो मार्गालंकारकारिभिः ।। २३ ।। निरन्तरैर्नृपच्छत्रैर्भवन्नूतनमंडपः । क्रमेण प्राप समवसरणं स महीपतिः ।। २४ ।। स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसांचक्रे यथास्थानं चाऽऽस्थाने ऋद्धिगर्वितः ।। २५ ॥ तस्यार्द्धिगर्व विज्ञाय तत्प्रबोधनहेतवे । अम्भोमयं विकृतवान् विमानं पाकशासनः ।। २६ ॥ स्फटिकाच्छजलप्रान्तविकटाम्भोजसुन्दरम् । मरालसारसस्वानप्रतिस्वानसमाकुलम् ।। २७ ॥ सुरद्रुमलताश्रेणिपतत्कुसुमशोभितम् । नीलोत्पलै राजमानमिन्द्रनीलमणीमयैः ।। २८ ।। नलिनीषु मरकतमयीषु परिवर्तिभिः । विभ्राजमानमधिकं स्वर्णाम्भोजैर्विकस्वरैः ।। २९ ॥ लोलकल्लोलमालाभिः पताकामालभारिणम् । जलकान्तविमानं तं शक्रोऽध्यास्त सुरैः सह ।।३०॥ ॥चतुर्भिः कलापकम् ।। चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः । गन्धर्वारब्धसंगीतदत्तकर्णो मनाग्मनाक् ।।३१ ॥ स्वामिपादपवित्रायां दत्तदृष्टिरधो भुवि । मर्त्यलोकमवातारीदमाधिपतिस्ततः ।। ३२ ।। ।। युग्मम् ॥ नालेन मारकतेन राजितेष्वम्बुजन्मसु । सौवर्णेषु न्यस्तपादं सपादमिव पर्वतम् ।।३३ ॥ मणीमयदन्तकोशैर्दन्तैरष्टभिरुर्जितम् । देवदूष्यच्छन्नपृष्ठं प्रष्ठं त्रिदशदन्तिनाम् ।।३४ ।। १ प्रष्टं । पृथं । दशार्णभद्रचरित्रम् । २८९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy