________________
त्रिषष्टिशलाकापुरुषचरिते IR८८॥
दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् ।
इतश्च तत्र भगवान् पुराबहिरुपाययौ । देवैश्च तत्र समवसरणं च व्यरच्यत ।।१०।। तदाजशासनं तेऽपि राजाऽऽयुक्ताः क्षणाद्यधुः । वचसा भूभुजां सिद्धिर्मनसेव दिवौकसाम् ।।११।। अशामि कुंकुमाम्भोभी रजस्तद्राजवर्त्मनः । अकारि तन्मार्गमही पुष्पप्रकरदन्तुरा ।। १२ ।। स्थाने स्थाने व्यधीयन्त काश्चनस्तम्भतोरणाः । मञ्चाश्च सञ्चिताः स्वर्णभाजनश्रेणिशोभिताः ।। १३ ।। विचित्राश्चित्रकत्वग्भिश्चीनवासोभिराचिताः । उड्डामराश्चामरैश्च रत्नादर्शः सुदर्शनाः ॥ १४ ॥ उद्गन्धयो गन्धपुटापुटिकाभिः सहस्रशः । स्तम्मैवाभितो न्यस्तैरबध्यन्त च मालिकाः ।।१५।। ।। युग्मम्।। उद्दडैमंडपैर्मेघाडम्बरश्रीविडम्बिभिः । मुक्तोच्चूलवदुल्लोचैरेकच्छायं व्यधीयत ।। १६ ।। पदे पदे मुमुचिरे धूपघटयः सपावकाः । निक्षिप्तागुरुकर्पूरधूमांकुरितमण्डपाः ।। १७ ।। एवं दिवः खंडमिव कृत्वा मार्ग नियोगिनः । राज्ञे व्यज्ञपयन् स्वामिदर्शनौत्सुक्यधारिणे ॥ १८ ॥ स्नात्वा राजाऽपि दिव्यांगरागः सर्वांगभूषणः । शुचिवस्त्रधरः स्रग्वी गजमारोहदुत्तमम् ।। १९ ॥ मुनि श्वेतातपत्रेण चामराभ्यां च पार्श्वयोः । राजमानो राजवर्यः सुरराज इवाचलत् ।। २० ॥ महार्घ्यभूषणधरैः सामन्ताद्यैः सहस्रशः । सोऽन्वगम्यत भूपालः स्वै रुपैरिव वैक्रियैः ॥ २१ ॥ सद्यस्तमनुचेलुश्च चलच्चामरराजिताः । पराजितशचीरुपा अन्तःपुरमृगीदृशः ।। २२ ।। १ द्राग् । २ मिनः । मितः । ३ यिज्ञ ।
दशार्णभद्रचरित्रम् ।
IR८८॥