SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ २८७ ॥ दशमः सर्गः । इतश्च पुर्याश्चम्पायाः सुरासुरसमावृतः । क्रमेण विहरन् प्राप दशार्णविषयं प्रभुः ॥ १ ॥ दशार्णपुरमित्यस्ति नाम्ना तत्र महापुरम् । दशार्णभद्र इत्यासीत्तत्र राजा महर्द्धिकः ।। २ ।। सभासीनं तदा सायं तमेत्योचुश्चरा इदम् । वीरो जिनपतिः प्रातः समेष्यति पुरेऽत्र ते ।। ३ ।। बभार तद्गिरा हृष्टो राजा रोमाश्चकंचुकम् । विदूरः स्तनितेनेव रत्नांकुरकदम्बकम् ॥ ४ ॥ सभासमक्षमूचे च तया ऋद्धया प्रगे प्रभुम् । वन्दिष्ये न यया कश्चिद्ववन्दे त्रिजगत्यपि ॥ ५ ॥ इत्युदित्वा च मंत्र्यादीन् विसृज्य सकलानपि । जगामान्तःपुरगृहं दशार्णपुरभूपतिः ॥ ६ ॥ वन्दिष्य एवमेवं च स्तोष्ये प्रातर्जगद्गुरुम् । इति चिन्तापरोऽनैषीत् कथंचिद्यामिनीं स ताम् ।। ७ ।। रवावनुदयत्येव स पार्थिवरविस्ततः । आहूय नगराध्यक्षप्रभृतीनेवमादिशत् ॥ ८ ॥ मद्धाम्नः स्वामिसमवसरणस्य तथाऽन्तरे । मद्यानयोग्यं कर्तव्यं सर्वद्वर्या मार्गभूषणम् ॥ ९ ॥ १त्पतिः । অঅ दशमं पर्व दशमः सर्गः श्रीमहावीर जिन चरितम् । दशार्णभद्र-चरित्रम् । ॥२८७ ।।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy