SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ||३००॥ यद्यपि त्यक्तवान्नस्त्वं तथाऽपि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः ।। १७४ ।। | आरम्भेणामुना पुत्र ! शरीरत्यागहेतुना । मनोरथं तमपि मे भक्तुमस्युद्यतोऽधुना ।। १७५ ॥ प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किं त्वेतत्कर्कशतरं शिलातलमितोभव ।। १७६ ।। अथोचे श्रेणिको हर्षस्थाने किं नाम रोदिषि ? । ईदृग्यस्याः सुतः स्त्रीषु सैका त्वं पुत्रवत्यसि ।। १७७ ।। तत्त्वज्ञोऽयं महासत्त्वस्त्यक्त्वा तृणमिव श्रियम् । प्रपेदे स्वामिनः पादान् साक्षादिव परं पदम् ।। १७८ ॥ || असौ जगत्स्वामिशिष्यानुरुपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः ।। १७९ ॥ भद्रैवं बोधिता राज्ञा वन्दित्वा तौ महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ॥ १८० ॥ उभौ तौ मुनीन्द्रौ प्रपन्नावसानौ । विमानेऽथ सर्वार्थसिद्धाभिधाने ।। अभूतां प्रभूतप्रमोदाब्धिमग्नौ । त्रयस्त्रिशदब्ध्यायुषौ देववर्यो ।। १८१ ।। दशमं पर्व दशमः सर्गः श्रीमहावीरजिनचरितम् । SARASHAHARASHARABHARASHRSS शालिभद्रधन्ययोः चरित्रम् । ॥३००॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि दशार्णभद्र-शालिभद्र-धन्यक-चरितवर्णनो नाम दशमः सर्गः ।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy