________________
त्रिषष्टिशलाका
पुरुषचरिते
॥२८४ ॥
भस्मांगरागः खट्वांगी शूलपाणिः पिनाकभृत् । कपाली रुंडमाली च नानागणसमावृतः ।। २८६ ॥ आख्यद्धर्मं हरो भूत्वा पौराणां च मनोऽहरत् । परमश्राविका सा तु तं द्रष्टुमपि नाययौ ॥ २८७ ॥ चतुर्थेऽहन्युत्तरस्यां स वप्रत्रयशोभितम् । दिव्यं समवसरणं विचक्रे स्फारतोरणम् ॥ २८८ ॥ स्थितं तत्र जिनीभूय श्रुत्वा पौरा विशेषतः । ऋद्ध्या महत्याऽभ्येयुस्तं ततो धर्मं च शुश्रुवुः ॥ २८९ ॥ एवं सत्यपि नायातां सुलसामंबडोऽथ ताम् । कंचित् क्षोभयितुं प्रैषीद्गत्वा सोऽपीत्यवोचत ।। २९० ।। सुलसे ! समवसृतो विश्वस्वामी जिनेश्वरः । तदेहि भद्रे ! तत्पादान् वन्दितुं किं विलम्बसे ? ।। २९१ ॥ साऽपि बभाषे तं न खल्वेष जगद्गुरुः । भगवान् श्रीमहावीरश्चतुर्विंशो जिनेश्वरः ।। २९२ ।। सोऽपि च प्रत्युवाचैवं मुग्धे ! नन्वेष वर्तते । पंचविंशस्तीर्थकरः प्रत्यक्षमपि वीक्ष्यताम् ॥ २९३ ॥ सुलसाऽप्यब्रवीज्जातु पंचविंशो जिनो न हि । अयं कार्पटिकः कोऽपि लोकं वञ्चयते कुधीः ।। २९४ ।। सोऽप्यूचे मा कृथा भेदं शासनस्य प्रभावना । भद्रे ! भवत्येह तत्र का ते हानिर्भविष्यति ? ।। २९५ ।। अवदत्सुलसाऽप्येवं शासनस्य प्रभावना । नैवं भवत्यलीकेन किं त्वपभ्राजनैव हि ।। २९६ ॥ अचालितामेवमपि निरीक्ष्य सुलसां स्थिराम् । अंबडश्चिन्तयामास संजातप्रत्ययो हृदि ।। २९७ ।।
१ मम्मडो' । २ - अम्मड° ।
*%
marsh
दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् ।
सुलसासम्यक्त्वपरीक्षा ।
॥२८४ ।।