________________
दशमं पर्व नवमः
त्रिषष्टिशलाकापुरुषचरिते IR८३॥
सर्गः
श्रीमहावीरजिन
चरितम् ।
तत्र नागरथिपल्याः सुलसायास्त्वमादरात् । प्रवृत्तिमस्मदादेशात् पृच्छे: पेशलया गिरा ।। २७४ ।। इच्छामीति भणित्वा स व्योम्ना राजगृहं ग्यौ । सुलसाया गृहद्वारे स्थित्वा चैवमचिन्तयत् ।। २७५ ।। सुरासुरनरेन्द्राणां पश्यतां त्रिजगत्पतिः । सुलसापक्षपाती कि ? करिष्ये तत्परीक्षणम् ।। २७६ ।। कृत्वा रुपान्तरं सोऽथ जातवैक्रियलब्धिकः । प्रविश्य सुलसागेहे सुधीभिक्षामयाचत ।। २७७ ॥ पात्राय साधवे भिक्षां ददामीति कृताश्रवा । याचमानायापि तस्मै सुलसा न ददौ तदा ।। २७८ ॥ ततश्च निःसृत्य पुराद् द्वारि प्राग्गोपुरस्य सः । विकृत्य ब्रह्मणो रुपमवतस्थे समाहितः ।। २७९ ।। पद्मासनसमासीनश्चतुर्बाहुश्चतुर्मुखः । ब्रह्मसूत्र्यक्षसूत्री च जटामुकुटमण्डितः ।। २८० ।। सावित्रीसंयुतो हंसयानो धर्म दिदेश सः । पौराणां च मनोऽहार्षीत् साक्षात्ब्रह्मेति मानिनाम् ।। २८१ ।। बहिरस्ति स्वयं ब्रह्मेत्याहूताऽपि सखीजनैः । न ययौ सुलसा मिथ्यादृष्टिसंस्तवकातरा ।। २८२ ॥ अम्बडश्च द्वितीयेऽह्नि याम्यायां गरुडासनः । शंखचक्रगदाशार्गौ तस्थौ गोविन्दरुपभृत् ।। २८३ ।। अपि विष्णुप्रवादेन लोकव्यामोहकारिणा । नाऽऽययौ सुलसा तत्र सम्यग्दर्शननिश्चला ।। २८४ ।। अंबडोऽथ तृतीयेऽह्नि वारुण्यां वृषवाहनः । चन्द्रचूडो युतो गौर्या कृत्तिवासास्त्रिलोचनः ॥२८५ ।। १ अम्मड । अम्माड ।२ अम्मडो ।
सुलसासम्यक्त्वपरीक्षा ।
IR८३॥