________________
दशमं पर्व
नवमः
त्रिषष्टिशलाकापुरुषचरिते ।२८२॥
सर्गः श्रीमहावीरजिनचरितम् ।
गौतमस्य प्रबोधार्थमन्येषां चानुशिष्टये। व्याकरोद् द्रुमपत्रीयाध्ययनं परमेश्वरः ।। २६१ ।। अत्रान्तरे जगद्भर्तुश्चरणोपासकः परः। परिव्राडबडस्तत्राययौ छत्री त्रिदंडभृत् ।। २६२ ।। स त्रिः प्रदक्षिणीकृत्य प्रणम्य च जिनेश्वरम् । रोमाञ्चितवपुर्भक्त्या रचिताञ्जलिरस्तवीत् ॥ २६३ ।। तव चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा । मच्चित्ते वर्तसे चेत्त्वमलमन्येन केनचित् ।। २६४ ॥ निगृह्य कोपतः कांश्चित् कांश्चित्तुष्टयाऽनृगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः ।। २६५ ।। अप्रसन्नात् कथं प्राप्यं फलमेतदसंगतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ? || २६६ ॥ वीतरागसपर्याभिः तवाज्ञापालनं परम् । आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च ।। २६७ ।। आकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः ॥२६८ ॥ आश्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमार्हती मुष्टिरन्यदस्याः प्रपंचनम् ।। २६९ ।। इत्याज्ञाराधनपरा अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये क्वचन निर्वास्यन्ति तथाऽपरे ।। २७० ॥ हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् ।। २७१ ।। एवं जगद्गुरुं स्तुत्वा यथास्थानं निषद्य च । देशनां स्वामिनोऽौषीत् स्वर्वासीवानिमेषदृक् ॥ २७२ ।। देशनान्ते प्रभुं नत्वा यावद्राजगृहं प्रति । अचालीदंबडस्तावदित्यूचे स्वामिना स्वयम् ॥ २७३ ।। १ डम्मड । २ पर्यापि त । पर्यायास्त ।
सुलसासम्यक्त्वपरीक्षा।
IR८२॥