________________
त्रिषष्टिशलाकापुरुषचरिते २८१॥
दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् ।
पायसेनेयता किं स्यात्तथापि गुरुरेष नः । एवं विमृश्य ते सर्वे मुनयः समुपाविशन् ।। २४९ ।। तान्महानसलब्ध्येन्द्रभूतिः सर्वानभोजयत् । स्वयं तु बुभुजे पश्चात्तेषां जनितविस्मयः ॥२५० ॥ दिष्ट्या धर्मगुरुर्वीरः प्राप्तोऽस्माभिर्जगद्गुरुः । पितृकल्पो मुनिश्चैष बोधश्चात्यन्तदुर्लभा ।। २५१ ॥ सर्वथा कृतपुण्याः स्म इति भावयतामभूत् । भुज्जानानां केवलं द्राक् तत्र सेवालभक्षिणाम् ।। २५२ ।।
॥युग्मम् ॥ जज्ञे च प्रातिहार्याणि दत्तादीनां प्रपश्यताम् । कौंडिन्यादीनां श्रीवीरं केवलज्ञानमुज्जवलम् ॥२५३ ॥ प्रभुं प्रदक्षिणीकृत्य तेऽयुः केवलिपर्षदि । वन्दध्वं स्वामिनमिति तानभाषिष्ट गौतमः ।। २५४ ।। केवल्याशातनां मा स्म कार्षीरित्यवदत्प्रभुः । मिथ्यादुष्कृतपूर्वं तान् क्षमयामास गौतमः ।। २५५ ॥ भूयोऽपि गौतमो दध्यौ सेत्स्याम्यत्र भवे न हि । गुरुकर्माऽहमेते तु धन्या मद्दीक्षिता अपि ।। २५६ ॥ उत्पेदे केवलज्ञानं येषामेषां महात्ममान् । एवं विचिन्तयन्तं तं भगवानित्यभाषत ।।२५७।। ।। युग्मम् ।। किं सुराणां वचस्तथ्यं जिनानामथ गौतम! | जिनानामिति तेनोक्ते मा कार्षीरधृति ततः ।। २५८ ॥ तृणद्विदलचर्मोणाकटतुल्या भवन्ति हि । स्नेहा गुरुषु शिष्याणां तवोर्णाकटसन्निभः ।। २५९ ।। अस्मासु चिरसंसर्गात् स्नेहो दृढतरस्तव । तेन रुद्धं केवलं ते तदभावे भविष्यति ।। २६० ॥ १ °षामजनि वि।२ दिन्नादी ।
पञ्चदशशततापसानां प्रतिबोधः ।
IR८१॥