________________
त्रिषष्टिशलाकापुरुषचरिते
॥२८० ॥
याचित्वोपाश्रयं ग्रामे निषण्णस्तृणसंस्तरे । गुर्वन्ते प्रव्रजिष्यामि कदा न्विति विचिन्तयन् ।। २३६ ।। विहिताराधनः सम्यक् शुभध्यानपरायणः । पीनांगोऽपि विपन्नः सन् स सर्वार्थमुपेयिवान् ॥ २३७ ॥ ।। त्रिभिर्विशेषकम् ।।
तत्पीनत्वं कृशत्वं वा न प्रमाणं तपस्विनाम् । शुभध्यानं हि परमपुरुषार्थनिबन्धनम् ॥ २३८ ।। एतदर्थं पुंडरीकाध्ययनं गौतमोदितम् । जग्राहकसंस्थयापि श्रीदसामानिकः सुरः ।। २३९ । प्रतिपेदे स सम्यक्त्वं नत्वा वैश्रवणः पुनः । स्वाभिप्रायपरिज्ञानान्मुदितः स्वाश्रयं ययौ ।। २४० ।। एवं देशनया स्वामी गौतमोऽतीत्य तां निशाम् । प्रभाते चोत्तरन् शैलात्तापसैस्तैरदृश्यत ।। २४१ ॥ तापसास्तं प्रणम्योचुर्महात्मंस्तपसां निधे ! । तव शिष्यीभविष्यामस्त्वमस्माकं गुरुर्भव ॥ २४२ ।। तानूचे गौतमस्वामी गुरुर्मे परमेश्वरः । सर्वज्ञोऽर्हन्महावीरः स एव गुरुरस्तु वः ।। २४३ ।। अथ तानाग्रहपरान् दीक्षयामास गौतमः । सद्यो देवतया तेषां यतिलिंगं समर्पितम् ॥ २४४ ॥ गौतमेन समं चेलुर्गन्तुं ते स्वामिनोऽन्तिके । सह यूथाधिपतिना विन्ध्याद्रौ कुञ्जरा इव ।। २४५ ॥ पथ्येकस्मिन् सन्निवेशे भिक्षाकाले गणाग्रणीः । किं वः पारणकायेष्टमानयामीत्युवाच तान् ॥ २४६ ॥ तैश्च पायसमित्युक्ते गौतमो लब्धिसंपदा । स्वकुक्षिपूरणमात्रं पात्रे कृत्वा तदानयत् ।। २४७ ।। इन्द्रभूतिर्बभाषे तान्निषीदत महर्षयः ! । पायसेनामुना यूयं सर्वे कुरुत पारणम् ॥ २४८ ॥
P
दशमं पर्व
नवमः
सर्गः
श्रीमहावीरजिनचरितम् ।
पञ्चदश
शत
तापसानां प्रतिबोधः ।
॥२८० ॥