________________
त्रिषष्टिशलाकापुरुषचरिते ॥२८५॥
दशमं पर्व नवमः | सर्गः
श्रीमहावीरजिनचरितम् ।
स्थाने जगद्गुरुर सभायां समभावयत् । अचालि तस्याः सम्यक्त्वं माययाऽपि मया न हि ।। २९८ ।। ततः संहृत्य निःशेषं प्रपंचं सुलसागृहे । स्वेनैव रुपेणाविक्षद्वदन्नैषेधिकीति सः ।। २९९ ।। अभ्युत्तस्थौ सुलसा तमूचे च स्वागतं तव । धर्मबन्धो ! जगद्बन्धोर्वीरस्य श्रावकोत्तम ! ।।३०० ।। पादौ प्रक्षालयामास तस्य मातेव वत्सला । निजानि गृहचैत्यानि वन्दयामास चोच्चकैः ॥३०१ ।। स तच्चैत्यानि वन्दित्वा तामवोचत शुद्धधीः । नित्यानित्यानि चैत्यानि त्वं वन्दस्व गिरा मम ।। ३०२ ।। ववन्दे भूतलन्यस्तमौलिश्चैत्यानि तानि सा । प्रत्यक्षाणीव पश्यन्ती भक्तिभावितमानसा ।। ३०३ ।। स भूयः सुलसामूचे त्वमेका पुण्यवत्यसि । यस्या वार्ता स्वयं स्वामी मन्मुखेनाद्य पृच्छति ।। ३०४ ।। आकर्ण्य तद्वचः साऽपि ववन्दे मुदिता प्रभुम् । रोमाञ्चितशरीराऽथ तुष्टाव स्पष्टया गिरा ।। ३०५ ।। परीक्षितुमना भूयस्तमूचे चतुरोऽथ सः । ब्रह्मादयोऽत्रावतेरुर्धर्मं च व्याचचक्षिरे ।। ३०६ ॥ तान् वन्दितुं ययुः पौरास्तेभ्यो धर्म च शुश्रुवुः । न कि कौतूहलेनापि सुलसे ! गतवत्यसि ? ।। ३०७ ।। सुलसाऽपि बभाषे तं जानन्नपि किमज्ञवत् । जल्पस्येवं महाभाग ! के ब्रह्माद्यास्तपस्विनः ।।३०८ ॥ हिंसितुं शस्त्रभाजो ये स्त्रीभाजः सेवितुं च ताः । कमाख्यास्यन्ति ते धर्ममधर्मनिरताः स्वयम् ।।३०९ ॥
सुलसासम्यक्त्वपरीक्षा।
IR८५॥