________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२७७ ॥
निर्गत्य गौतमश्चैत्यात्तलेऽशोकमहातरोः । उपाविशद्वन्द्यमानः सुरासुरनभश्चरैः ।। १९६ ।। चक्रे च गौतमस्तेषां यथाऽर्हं धर्मदेशनाम् । संदेहांश्चाच्छिदत् पृष्टस्तर्कितः केवलीति तैः ।। १९७ ॥ देशनां कुर्वता तेन प्रस्तावादिदमौच्यत । अस्थिचर्मावशिष्टांगाः किडत्किडितसंधयः ।। १९८ ।। ग्लानिभाजो ब्रुवन्तोऽपि जीवसत्त्वेन गामिनः । तपोभिरुग्रैरीदृक्षा भवन्ति खलु साधवः ।। १९९ ॥ तत्तु श्रुत्वा वैश्रवणस्तस्य स्थौल्यं विभावयत् । स्वस्मिन्नपि विसंवादि वचोऽस्येत्यहसन्मनाक् ॥ २०० ॥ इन्द्रभूतिर्मनोज्ञानी ज्ञात्वा तद्भावमब्रवीत् । नांगकार्थ्यं प्रमाणं स्यात् किं त्वहो ध्याननिग्रहः ।। २०१ ।। तथाहि जम्बूद्वीपेऽस्मिन्महाविदेहभूषणे । विजये पुष्कलावत्यामस्ति पूः पुंडरीकिणी ।। २०२ ।। महापद्मो नृपस्तत्र तस्य पद्मावती प्रिया । पुंडरीककंडरीकौ तयोः पुत्रौ बभूवतुः ॥ २०३ ॥ अन्यदा नलिनवनोपवने समुपेयुषाम् । साधूनां सन्निधौ धर्मं महापद्मनृपोऽशृणोत् ॥ २०४ ॥ न्यस्य राज्ये पुण्डरीकं महापद्मोऽग्रहीद् व्रतम् । उत्पन्नकेवलः कर्मक्षयान्मोक्षमगात् क्रमात् ।। २०५ ।। साधवः पुंडरीकिण्यां तेऽन्यदा पुनराययुः । पुंडरीककंडरीकौ धर्मं शुश्रुवतुस्ततः ॥ २०६ ॥ तत्र भावयतिर्भूत्वा पुंडरीको गृहं ययौ । समक्षं मंत्रिणां चैवं कंडरीकमभाषत ।। २०७ । इदं वत्स ! समादत्स्व राज्यं पैतृकमुच्चकैः । भवाद्भीतो ग्रहीष्यामि दीक्षां तद्भयरक्षिणीम् ॥ २०८ ॥ प्रत्यूचे कंडरीकोऽपि किं पातयसि मां भवे ? । तदहं प्रव्रजिष्यामि तरिष्यामि भवार्णवम् ॥। २०९ ।।
1
Pet6
दशमं पर्व
नवमः
सर्गः
श्रीमहावीर
जिनचरितम् ।
पुण्डरीककंडरीक
चरित्रम् |
।।२७७ ॥