________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२७६ ॥
तदिच्छां तापसबोधं चार्हन् विज्ञाय भाविनम् । आदिदेशाष्टापदेऽर्हद्वन्दनायाथ गौतमम् ॥ १८३ ॥ इच्छाऽनुरूपस्वाम्याज्ञामुदितो गौतमो मुनिः । वायुवञ्चारणलब्ध्या क्षणादष्टापदं ययौ ।। १८४ ।। इतश्चाष्टापदं मोक्षहतुं श्रुत्वा तपस्विनः । कौंडिन्यदेत्तसेवाला आरोढुं समुपस्थिताः ।। १८५ ।। चतुर्थकृत्सदाप्याद्य आर्द्रकन्दादिपारणः । प्रापाऽऽद्यां मेखलां सार्धं पञ्चशत्या तपस्विनाम् ।। १८६ ।। द्वितीयः षष्ठकृत्प्राप शुष्ककन्दादिपारणः । द्वितीयां मेखलां सार्धं पञ्चशत्या तपस्विनाम् ।। १८७ ॥ तृतीयोऽष्टमकृत्प्राप शुष्कसेवालपारणः । तृतीयां मेखलां सार्धं पञ्चशत्या तपस्विनाम् ।। १८८ । ऊर्ध्वमारोढुमसहास्ते तस्थुर्यावदुन्मुखाः । ददृशुर्गौतमं तावत् स्वर्णाभं पीवराकृतिम् ।। १८९ ।। ते मिथः प्रोचिरे शैलं वयमेतं कृशा अपि । न रोढुमीश्महे स्थूल आरोक्ष्यत्यत्येष तत्थकम् ।। १९० ।। एवं तेषु ब्रुवाणेषु गौतमस्तं महाचलम् । समारुरोह जज्ञे चाध्श्यः सुर इव क्षणात् ।। १९१ ।। तेऽन्योऽन्यं जगदुः शक्तिर्महर्षेरस्य काऽप्यसौ । यद्यायास्यत्यसौ शिष्यीभविष्यामोऽस्य तद्वयम् ।। १९२ ॥ निश्चित्यैवं तापसास्ते प्रत्यायान्तं स्वबन्धुवत् । आबद्धरणरणकाः प्रतीक्षन्ते स्म सादरम् ।। १९३ ।। गौतमोऽपि ययौ चैत्यं भरतेश्वरकारितम् । नन्दीश्वरस्थचैत्याभं चतुर्विंशजिनांकितम् ।। १९४ ।। अवन्दिष्टार्हतां तत्र स चतुर्विंशतेरपि । बिंबान्यप्रतिबिम्बानि भक्त्या परमया युतः ।। १९५ ।।
१ "पसे बो" । 'पसा बो' । पसंबो' । २ दिनस° ।
दशमं पर्व
नवमः सर्गः
श्रीमहावीरजिनचरितम् ।
पञ्चदश
शत
तापसानां प्रतिबोधः ।
॥२७६॥