________________
त्रिषष्टिशलाका
पुरुषचरिते
दशमं पर्व नवमः सर्गःश्रीमहावीरजिनचरितम् ।
२७८॥
ARRRRRRRRRRRRRRRRRASSES
ततो द्विस्त्रिश्च राज्यार्थे राज्ञोक्त नाकरोद्यदा । तदा व्रतेऽनुजज्ञे स शिष्टश्चैवं हितैषिणा ।। २१० ॥ दुर्जयानीन्द्रियाणीह चंचलं च सदा मनः । विकारधाम तारुण्यं प्रमादः सहजो नृणाम् ॥ २११ ।। परीषहोपसर्गाश्च दुःसहा वत्स ! तत्त्वया । भाव्यं दृढप्रतिज्ञेन प्रव्रज्या दुष्करा खलु ।। २१२ ।। यदि वा श्रावकधर्म राज्यं च परिपालय । अतीते यौवने दीक्षामाददीथास्तदोचिताम् ।। २१३ ।। कंडरीकोऽप्युवाचैवं सत्यमेतत्तथापि हि । प्रजल्पितं विधातव्यं प्रव्रजिष्यामि निश्चितम् ।। २१४ ॥ प्रावाजीत् कंडरीकोऽथ पुंडरीकस्तु भूपतिः । व्रतान्निषिद्धः सचिवैस्तस्थौ भावयतिगृह ।।२१५ ।। कंडरीकोऽपि विविधैस्तपोभिः क्लिष्टविग्रहः । सामाचारीपालनतः साधूनामभवत् प्रियः ।। २१६ ।। वसन्तसमयेऽन्येधुर्जुम्भमाणे मनोऽचलत् । महर्षेः कंडरीकस्य चारित्रावरणोदयात् ।। २१७ ।। अचिन्तयच्च पर्याप्तं मम प्रव्रज्ययाऽनया । गत्वा राज्यमुपादास्ये भ्रात्रा दत्तं पुराऽपि यत् ।।२१८ ॥ इत्यागात्पुंडरीकिण्यां स्थित्वोद्याने तरौ क्वचित् । पात्राधालम्ब्य हरितस्रस्तरे शीतलेऽलुठत् ।। २१९ ।। उद्यानपालेनाऽऽत्मानं स राज्ञेऽज्ञापयद् द्रुतम् । सप्रधानो नृपस्तत्राभ्यागत्य तमवन्दत ।।२२० ।। वृक्षबद्धोपकरणो हरित्कायस्थ एककः । मन्येऽसौ व्रतनिर्विण्ण इति ज्ञात्वाऽब्रवीन्नृपः ।।२२१ ॥ भो ! भोः ! सर्वे स्मरथ किं यन्मे वारयतोऽमुना । तदा गृहीतं श्रामण्यं बालेन रभसावशात् ।। २२२ ॥
पुण्डरीककंडरीकचरित्रम् ।
I२७८॥