________________
दशमं पर्व नवमः
त्रिषष्टिशलाकापुरुषचरिते २७४।।
सर्गः
श्रीमहावीरजिनचरितम् ।
एकस्मात् कुण्डलद्वन्द्वं चन्द्रद्वन्द्वमिवामलम् । देदीप्यमानमन्यस्मात् क्षौमयुग्मं च निःसृतम् ।। १५६ ॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः ।। १५७॥ राजा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता । भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चयैः ।। १५८ ।। कपिलोचे विधत्से मां सर्वां स्वर्णमयीं यदि । हिनस्सि वा तथाप्येतदकृत्यं न करोम्यहम् ।। १५९ ॥ कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुच्च यत् । दासयेऽर्थं बहुमर्थस्य लोभात्त्वमसि सौनिकः ।।१६० ॥ सूनायां ननु को दोषो? यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् ।। १६१ ॥ सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति । नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् ।। १६२ ॥ अथ विज्ञापयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ! ।। १६३ ।। सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतान् पच्च महिषाणां स्वयं निर्माय मृन्मयान् ।। १६४ ।। तद्गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः । धिगहो मे पुराकर्म नान्यथा भगवद्गिरः ।। १६५ ॥ श्रीवीरोऽपि ततः स्थानाद्विहरन् सपरिच्छदः । सुरासुरैः सेव्यमानः पृष्ठचम्पापुरी ययौ ।।१६६ ॥ सालो राजा महासालो युवराजश्च बान्धवौ । त्रिजगब्दान्धवं वीरं तत्र वन्दितुमेयतुः ।। १६७ ॥ श्रुत्वा तौ देशनां बुद्धौ जामेयं गागलिं स्वयम् । यशोमतीपिठरयोः सुतं राज्येऽभ्यषिञ्चताम् ।। १६८ ।। अथ सालमहासालौ विरक्तौ भववासतः । श्रीमहावीरपादाब्जमूले जगृहतुव्रतम् ।। १६९ ॥
श्रेणिकभावितीर्थकरत्ववर्णनम् ।
२७४॥