________________
त्रिषष्टिशलाकापुरुषचरिते ॥२७३ ॥
आद्य भावजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिधो राजन् ! खेदं मा स्म कृथास्ततः ।। १४२॥ श्रेणिकोऽप्यवदन्नाथ! किमुपायोऽस्ति कोऽपि सः । नरकाद्येन रक्ष्येऽहमन्धकूपादिवान्धलः ।। १४३ ॥ भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत् कपिलया भिक्षां दापयसे मुदा ।। १४४ ।। कालसौकरिकेणाथ सूनां मोचयसे यदि । तदा ते नरकान्मोक्षो राजञ्जायेत नाऽन्यथा ।। १४५ ।। सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति ।। १४६ ।। अत्रान्तरे परीक्षार्थं दर्दृरांकेन भूपतेः । अकार्यं विदधत्साधुः कैवर्त इव दर्शितः ।। १४७ ।। तं दृष्ट्वा प्रवचनस्य मालिन्यं मा स्म भूदिति । निवार्याकार्यतः साम्ना स्वगृहं प्रत्यगान्नृपः ।। १४८ ॥ स देवो दर्शयामास साध्वीमुदरिणीं पुनः । नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ।। १४९ ।। प्रत्यक्षीभूय देवोऽपि तमूचे साधु साधु भोः । सम्यक्त्वाच्चाल्यसे नैव पर्वतः स्वपदादिव ।। १५० ।। नृनाथ ! यादृशं शक्रः सदसि त्वामवर्णयत् । दृष्टस्तादृश एवासि मिथ्यावाचो न तादृशाः ।। १५१ ।। दिवा निर्मितनक्षत्रश्रेणिकं श्रेणिकाय सः । व्यश्राणयत्ततो हारं गोलकद्वितयं तथा ।। १५२ ॥ योऽमुं संधास्यते हारं त्रुटितं स मरिष्यति । इत्युदीर्य तिरोधत्त स्वप्नदृष्ट इवामरः ।। १५३ ।। दिव्यं देव्यै ददौ हारं चेलणायै मनोहरम् । गोलकद्वितयं तत्तु नन्दायै नृपतिर्मुदा ।। १५४ ।। दानस्यास्यास्मि योग्येति सेर्घ्यं नन्दा मनस्विनी । आस्फाल्य स्फोटयामास स्तंभे तद्गोलकद्वयम् ।। १५५ ।।
दशमं पर्व
नवमः सर्गः
श्रीमहावीरजिनचरितम् ।
श्रेणिकभावितीर्थं
करत्व
वर्णनम् ।
॥२७३ ॥