________________
त्रिषष्टिशलाकापुरुषचरिते ॥२७२॥
दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् ।
यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गंगा न हि कस्यापि पैतृकी ।। १२९।। ततोऽस्मद्वन्दनाहेतोरुत्प्लुत्योत्प्लुत्य सोऽध्वनि । आयांस्तेऽश्वखुरक्षुण्णो भेकः पंचत्वमाप्तवान् ।। १३० ॥ द१रांकोऽयमुत्पदे देवोऽस्मद्भक्तिभावितः । भावना हि फलत्येव विनानुष्ठानमप्यहो ।। १३१ ।। इन्द्रः सदस्युवाचेदमुपश्रेणिकमार्हताः । अश्रद्दधानस्तदसौ त्वत्परीक्षार्थमागतः ।। १३२ ।। गोशीर्षचन्दनेनायमार्चयच्चरणौ मम । त्वदृष्टिमोहनायान्यत्सर्वं व्यधित वैक्रियम् ।। १३३ ॥ अथोचे श्रेणिकः स्वामिन्नमंगल्यं प्रभोः क्षुते । एषोऽन्येषां तु मंगल्यामंगल्यानि किमभ्यधे ॥ १३४ ॥ अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेति सोऽवदत् ।। १३५ ॥ स त्वामवोचज्जीवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल ! मृतस्य हि गतिस्तव ।। १३६ ।। जीवन् धर्म विधत्ते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाभयमभाषत ॥ १३७ ।। जीवन् पापपरो मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोक्तो मा जीव मा मृथाः ।। १३८ ।। तच्छ्रुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ ! कथं मे नरके गतिः ? ।। १३९ ।। बभाषे भगवानेवं पुरा त्वमसि भूपते ! । बद्धायुर्नरके तेन तत्रावश्यं गमिष्यसि ।। १४० ।। शुभानामशुभानां वा फलं प्राग्बद्धकर्मणाम् । भोक्तव्यं तद्वयमपि नान्यथा कर्तुमीश्महे ।। १४१ ॥ १"मर्च । २ चेत्ये ।
दुर्दुरांक
चरत्रिम् ।
IR७२॥