________________
दशमं पर्व
| नवमः
त्रिषष्टिशलाकापुरुषारते २७१॥
| सर्गः श्रीमहावीर
जिनचरितम् ।
पुर्यां स प्रविशन् पौरेर्ददृशे जातविस्मयैः । देदीप्यमानो निर्मुक्तनिर्मोक इव पन्नगः ॥११५ ॥ पौरेः पृष्टः पुनर्जात इवोल्लाघः कथं न्वसि ? | देवताराधनादस्मीन्याचचक्षे स तु द्विजः ।। ११६ ॥ स गत्वा स्वगृहेऽपश्यत् स्वपुत्रान् कुष्ठिनो मुदा । मयाऽवज्ञाफलं साधु दत्तमित्यवदच्च तान् ।। ११७ ॥ सुतास्तमेवमूचुश्च भवता तात ! निघृणं । विश्वस्तेषु किमस्मासु द्विषेवेदमनुष्ठितम् ।। ११८ ॥ लोकैराक्रुश्यमानः स राजन्नागत्य ते पुरम् । आश्रयज्जीविकाद्वारं द्वारपालं निराश्रयः ।।११९ ।। तदाऽत्र वयमायाता द्वाःस्थोऽस्मद्धर्मदेशनाम् । श्रोतुं प्रचलितोऽमुञ्चत्तं विप्रं निजकर्मणि ॥१२०॥ द्वारोपविष्टः स द्वारदुर्गाणामग्रतो बलिम् । जन्मादृष्टमिवाभुङ्क्त यथेष्टं कष्टितः क्षुधा ।। १२१ ॥ आकण्ठं परिभुक्तान्नदोषाद् ग्रीष्मोष्मणा च सः । उत्पन्नया तृषाऽकारि मरुपान्थ इवाऽऽकुलः ॥ १२२ ।। तच्च द्वाःस्थभिया स्थानं त्यक्त्वा नागात् प्रपादिषु । स तु वारिचराजीवान् धन्यान्मेने तृषातुरः ।।१२३।। आरटन् वारि वारीति स तृषार्तो व्यपद्यत । इहैव नगरद्वारवाप्यामजनि दर्दुरः ।। १२४ ॥ विहरन्तो वयं भूयोऽप्यागमामेह पत्तने । लोकोऽस्मद्वन्दनार्थं च प्रचचाल ससंभ्रमः ।। १२५ ॥ अस्मदागमनोदन्तं श्रुत्वाम्भोहारिणीमुखात् । स भेकोऽचिन्तयदिदं क्वाप्येवं श्रुतपूर्व्यहम् ।। १२६ ।। ऊहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । स्वप्नस्मरणवज्जातिस्मरणं तत्क्षणादभूत् ।। १२७ ॥ स दध्यौ दर्दुरश्चैवं द्वारे संस्थाप्य मां पुरा । द्वाःस्थो यं वन्दितुमगात् स आगाद्भगवानिह ।। १२८ ॥
दर्दुरांकदेवचरत्रिम् ।
।२७१॥