________________
दशमं पर्व नवमः
त्रिषष्टिशलाकापुरुषचरिते २७०॥
सर्गः
श्रीमहावीरजिनचरितम् ।
अथ सोऽचिन्तयद्विप्रः श्रीमन्तोऽमी मया कृताः । एभिर्मुक्तोऽस्म्यनादृत्य तीर्णाम्भोभिस्तरण्डवत् ।।१०२ ॥ तोषयन्ति न वाचाऽपि रोषयन्त्येव माममी । कुष्ठी रुष्टो न संतुष्टो भव्य इत्यनुलापिनः ।। १०३ ।। जुगुप्सन्ते यथैते मां जुगुप्स्याः स्युरमी अपि । यथा तथा करिष्यामीत्यालोच्यावोचदात्मजान् ।। १०४ ।। उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः !। मुमूर्षुभिः कुटुम्बस्य देयो मंत्रोक्षितः पशुः ।। १०५ ।। पशुरानीयतामेक इत्याऽऽकानुमोदिनः । आनिन्यिरे तेऽथ पशुं पशुवन्मन्दबुद्धयः ।। १०६ ।। उद्वर्योद्वर्त्य च स्वांगमन्नेन व्याधिवर्तिकाः । तेनाचारि पशुस्तावद्यावत् कुष्ठी बभूव सः ॥१०७ ।। ददौ विप्रः स्वपुत्रेभ्यस्तं हत्वा पशुमन्यदा । तदाशयमजानन्तो मुग्धा बुभुजिरे च ते ।। १०८ ॥ तीर्थे स्वार्थाय यास्यामीत्यापृच्छय तनयान् द्विजः । ययावूर्ध्वमुखोऽरण्यं शरण्यमिव चिन्तयन् ।। १०९ ।। अत्यन्ततृषितः सोऽटन्नटव्यां पयसे चिरम् । अपश्यत् सुहृदमिव देशे नानाद्रुमे हृदम् ॥११०॥ नीरं तीरतरुस्रस्तपत्रपुष्पफलं द्विजः । ग्रीष्ममध्यंदिनाकौशुक्वथितं क्वाथवत् पपौ ।। १११ ॥ सोऽपाद्यथा यथा वारि भूयो भूयस्तृषातुरः । तथा तथा विरेकोऽथ तस्याभूत् कृमिभिः सह ।। ११२ ।। स नीरुगासीत्कियद्भिरप्यहोभिर्हदाम्भसाः । मनोज्ञावयवो जज्ञे वसन्तेनेव पादपः ।। ११३ ॥ आरोग्यहृष्टो ववले विप्रः क्षिप्रं स्ववेश्मनि। पुंसां वपुर्विशेषोत्थः शृंगारो जन्मभूमिषु ॥ ११४ ।। १ न तु तुष्ये ।
दर्दुरांकदेवचरत्रिम् ।
२७०॥