________________
दशमं पर्व
नवमः
त्रिषष्टिशलाकापुरुषचरिते I२६९॥
सर्गः
श्रीमहावीरजिनचरितम् ।
ययाचे तत्तथा विप्रो राजाऽदात्तद्वदन्निदम् । करकोऽब्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः ।। ८९ ।। प्रत्यहं तत्तथा लेभे प्राप संभावनां च सः । पुंसा राजप्रसादो हि वितनोति महार्घताम् ।। ९० ।। राजमान्योऽयमित्येष लोकैर्नित्यं न्यमंत्र्यत । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः ।।९१ ॥ अग्रे भुक्तं वालयित्वा बुभुजेऽनेकशोऽपि सः । प्रत्यहं दक्षिणालोभाद्धिग्धिग्लोभो द्विजन्मनाम् ।। ९२ ।। उपाचीयत विप्रः स विविधैर्दक्षिणाधनैः । प्रासरत् पुत्रपौत्राद्यैः पादैरिव वद्रुमः ।। ९३ ॥ स तु नित्यमजीर्णान्नवमनादूर्ध्वगै रसैः । आमैरभूद् दूषितत्वेगश्वत्थ इव लाक्षया ।। ९४ ।। कुष्टी क्रमेण संजज्ञे शीर्णघ्राणांध्रिपाणिकः । तथैवामुक्त राजाग्रे सोऽतृप्तो हव्यवाडिव ।। ९५ ।। एकदा मन्त्रिभिर्भूपो विज्ञप्तो देव ! कुष्ठ्यसौ । संचरिष्णुः कुष्ठरोगो नास्य योग्यमिहाशनम् ।। ९६ ।। सन्त्यस्य नीरुजः पुत्रास्तेभ्यः कोऽप्यत्र भोज्यताम् । न्यगितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् ॥९७ ।। एवमस्त्विति राज्ञोक्तोऽमात्यैर्विप्रस्तथोदितः । स्वस्थानेऽस्थापयत्पुत्रं गृहे तस्थौ स्वयं पुनः ।। ९८ ॥ मधुमंडकवत्क्षुद्रमक्षिकाजालमालितः । पुत्रैहादपि बहिः कुटीरेऽक्षेपि स द्विजः ॥ ९९ ।। बहिःस्थितस्य तस्याज्ञां पुत्रा अपि न चक्रिरे । दारुपात्रे ददुः किन्तु शुनकस्येव भोजनम् ।। १०० ॥ जग्मुश्च तं भोजयितुं सजुगुप्साः स्नुषा अपि । तिष्ठिवुश्च वलदऽग्रीवं मोटनोत्पुटनासिकाः ॥१०१॥ १र्थता । २ वमयि । ३ °स्वांगोऽश्च । ४ °सनम् ।
दर्दुरांक
देव
चरत्रिम् ।
IR६९॥