________________
P
त्रिषष्टिशलाकापुरुषचरिते IR६८॥
दशमं पर्व नवमः सर्गः श्रीमहावीर
जिन
चरितम् ।
चंपाधिपोऽपि कालेन बहुना सन्नसैनिकः । प्रावृषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ।। ७७ ।। तदा पुष्पार्थमुद्याने गतोऽपश्यच्च सेडुकः । तं क्षीणसैन्यं प्रत्यूषे निष्प्रभोडुमिवोडुपम् ।। ७८ ।। तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणबलस्तेऽरिर्भग्नदंष्ट्र इवोरगः ।।७९ ।। यद्यद्योत्तिष्ठसे तस्मै तदा ग्राह्यः सुखेन सः । बलीयानपि खिन्नः सन्नखिन्नेनाभिभूयते ॥ ८० ।। तद्वचः साधु मन्वानो राजा सर्वाभिसारतः । निःससार शरासारसार नासीरदारुणः ।। ८१ ।। ततः पश्चादपश्यन्तो नेशुश्चम्पेशसैनिकाः । अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः ।। ८२ ।। चम्पाधिपतिरेकांगः कांदिशीकः पलायितः । तस्य हस्त्यश्वकोशादि कौशाम्बीपतिरग्रहीत् ।। ८३ ।। हृष्टः प्रविष्टः कौशाम्बी शतानीको महामनाः । उवाच सेडुकं विप्र ब्रूहि तुभ्यं ददामि किम् ? ।। ८४ ।। विप्रस्तमूचे याचिष्ये पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो गृहिणां गृहिणीं विना ।। ८५ ।। भट्टः प्रहृष्टो भट्टिन्यै तदशेष शशंस सः । चेतसा चिन्तयामास सा चैवं बुद्धिशालिनी ।। ८६ ।। यद्यमुना ग्राहयिष्ये नृपाद् ग्रामादिकं तदा । करिष्यत्यपरान् दारान्मदाय विभवः खलु ।। ८७ ॥ दिनं प्रत्येक आलोचस्तथाऽग्रासनभोजनम् । दीनारो दक्षिणायां च याच्योऽथेत्यन्वशात्पतिम्।। ८८ ॥ टि० "नासीरम् -अग्रसैन्यम् । १°सेन ।
RASANSARSHASHRSHARE
दर्दुरांकदेवचरत्रिम् ।
| IR६८॥