________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२६७ ॥
जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः । इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद्भटान् ।। ६४ ।। देशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः । रुरुधे श्रेणिकभटैः किरातैरिव सूकरः ।। ६५ ।। स तेषां पश्यतामेव दिव्यरुपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्नर्कबिम्बविडम्बनाम् ।। ६६ । पत्तिभिः कथिते राज्ञा स कः कुष्ठीति विस्मयात् । श्वो विज्ञप्तः प्रभुस्तस्मै देवः स इति शस्तवान् ॥ ६७ ॥ पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देवः कथमभूदेष कुष्ठी वा केन हेतुना ॥ ६८ ॥ अथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानीकोऽभवन्नृपः ।। ६९ ।। तस्यां नगर्यामेकोऽभून्नामतः सेडुको द्विजः । सीमा सदा दरिद्राणां मूर्खाणामवधिः परः ।। ७० ।। गर्भिण्याऽभाणि सोऽन्येद्युर्ब्राह्मण्या सूतिकर्मणे । भट्टानय घृतं मह्यं सह्या न ह्यन्यथा व्यथा ॥ ७१ ॥ सोऽप्यूचे तां प्रिये ! नास्ति मम कुत्रापि कौशलम् । येन किंचिल्लभे क्वापि कलाग्राह्या यदीश्वराः ॥ ७२ ॥ उवाच सा च तं भट्टं गच्छ सेवस्व पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित् कल्पपादपः ॥ ७३ ॥ तथेति प्रतिपद्यासौ नृपं पुष्पफलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिव सागरम् ॥ ७४ ॥ कदाचिदथ कोशाम्बी चम्पेशेनामितैर्बलैः । घनर्तुनेव मेघैर्धीररुध्यत समन्ततः ॥ ७५ ॥ सानीकोऽपि शतानीको मध्यकौशाम्बि तस्थिवान् । प्रतीक्षमाणः समयमन्तर्बिलमिवोरगः ।। ७६ ।।
१ याचस्व
| दशमं पर्व
नवमः
सर्गः
श्रीमहावीर
जिनचरितम् ।
दर्दुरांकदेवचरत्रिम् |
॥२६७॥