________________
त्रिषष्टिशलाका
दशमं पर्व नवमः
सर्गः
पुरुषचरिते
IR६६॥
श्रीमहावीरजिनचरितम् ।
भूयोऽपि श्रेणिकनृपो बभाषे भगवन्निह । कुत्रेदं केवलज्ञानं व्युच्छेदमुपयास्यति ।। ५१ ॥ तदाऽऽगाद् ब्रह्मलोकेन्द्रसामानिको महाद्युतिः । विद्युन्माली प्रभुं नन्तुं चतुर्देवीसमन्वितः ।। ५२ ॥ तं दर्शयन् स्वाम्युवाचोच्छेत्स्यते ह्यत्र केवलम् । भूयोऽपि श्रेणिकोऽपृच्छत् किं स्याद्देवेषु केवलम् ।। ५३ ॥ स्वाम्यथाख्यदसौ च्युत्वा सप्तमेऽह्नि भविष्यति । आढ्यस्यर्षभदत्तस्य सूनुस्त्वत्पुरवासिनः ।। ५४ ॥ भावी जंब्वाख्यया शिष्यो मच्छिष्यस्य सुधर्मणः । ततो नांग्रेसरमसावर्जयिष्यति केवलम् ।। ५५ ।। राजाऽपृच्छत्पुनर्नाथमासन्नच्यवनोऽप्यसौ । कस्मान्न मन्दतेजस्को देवा ह्यन्तेऽल्पतेजसः ।। ५६ ॥ स्वाम्यूचे सांप्रतमयं मन्दतेजाः सुरः खलु । अस्य तेजः पूर्वपुण्यैरत्युत्कृष्टं पुरा ह्यभूत् ।। ५७ ॥ एवमाख्याय भगवान् सर्वभाषाजुषा गिरा । विदधे दुरितप्रत्यादेशनी धर्मदेशनाम् ।। ५८ ॥ तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुट्टिमे ।। ५९ ॥ ततो भगवतः पादौ निजपूयरसेन सः । निःशंकश्चन्दनेनेव चर्चयामास भूयसा ।। ६०॥ तद्वीक्ष्य श्रेणिकः क्रूद्धो दध्यौ वध्योऽयमुत्थितः । पापीयान् यज्जगद्भर्तर्येवमाशातनापरः ।।१।। अत्रान्तरे जिनेन्द्रेण क्षुते प्रोवाच कुष्ठिकः । म्रियस्वेत्यथ जीवेति श्रेणिकेन क्षुते सति ।। ६२ ॥ क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥ १३ ॥ १ श्रेष्ठष । २ नग्रेस ।३ यो ज ।
प्रसन्नचन्द्रचरित्रम् ।
IR६६॥