________________
त्रिषष्टिशलाकापुरुषचरिते IR६५॥
दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् ।
अहो प्रसन्नचन्द्रस्य ध्यानावस्थेति चिन्तयन् । श्रेणिकोऽगान्महावीरं नत्वा चैवमभाषत ।।३८ ।। प्रसन्नचन्द्रो राजर्षिानस्थो वन्दितो मया । यदा तदा चेन्नियेत ततो गच्छेत् क्व शंस मे ॥३९ ।। सप्तमी भुवमित्याख्यन्नाथोऽथ श्रेणिकोऽपि हि । दध्यौ न साधोर्नरकस्तन्मया साधु न श्रुतम् ।। ४० ।। क्षणान्तरे च भूयोऽपि पप्रच्छ श्रेणिकः प्रभुम् । विपद्यते प्रसन्नश्चेदधुना तत्क्व गच्छति ।। ४१ ।। सर्वार्थसिद्धे यातीति शशंस भगवानपि । द्विधा किं व्याकरणमित्यपृच्छच्छ्रेणिकोऽप्यथ ॥ ४२ ॥ स्वाम्यूचे ध्यानभेदेन द्विधा व्याकरणं ह्यदः । तदा हि दुर्मुखगिरा प्रसन्नः कुपितः खलु ।। ४३ ।। जातामर्षश्च सामन्तामात्याद्यैः सह चेतसा । युध्यमानस्त्वयाऽवन्दि तदा स नरकोचितः ।। ४४॥ त्वय्यायातेऽत्र सोऽमस्त यत् क्षीणान्यायुधानि मे । हन्मि शत्रु शिरशस्त्रेणेत्यधिमूर्धं न्यधात्करम् ।। ४५ ।। कृतलुञ्चं स्पृशन्मौलि प्रतिबुद्धः स्मरन् व्रतम् । अकार्य धिङ्मयाऽऽरब्धमित्यादि स्वं निनिन्द सः ।। ४६ ।। आलोचितप्रतिक्रान्तः प्रशस्तध्यानमागतः । सर्वार्थसिद्धयोग्योऽभूत्तव प्रश्ने द्वितीयके ।। ४७ ॥ तत्रान्तरे च प्रसन्नचन्द्रर्षिसविधेऽभवत् । देवदुन्दुभिनिर्घोषमिश्रः कलकलो महान् ।। ४८ ॥ स्वामिन् ! किमिदमित्युक्ते श्रेणिकेनावदद्विभुः । तस्य ध्यानान्तरस्थस्येदानीमजनि केवलम् ॥ ४९ ॥ तस्य केवलिमहिमामिमां कुर्वन्ति नाकिनः । प्रमोदतुमुलस्तेषां दुन्दुभिध्वानवानयम् ॥ ५० ॥ १°न्मियते । २ 'त्यभिमू ।
प्रसन्नचन्द्रचरित्रम् ।
IR६५॥