________________
त्रिषष्टिशलाकापुरुषचरिते IR६४॥
दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् ।
विहरन् स्वामिना सार्धं तप्यमानस्तपः परम् । अजायत स राजर्षिः क्रमात्सूत्रार्थपारगः ।। २४ ।। तेनर्षिणाऽपरैश्चापि ऋषिभिः परिवारितः । विहरन् भगवान् वीरो ययौ राजगृहेऽन्यदा ।। २५ ।। तत्र द्रष्टुं जगन्नाथमुत्कः सुतसमावृतः । चचाल श्रेणिकोऽश्वेभश्रेणिमण्डितभूतलः ।।२६ ।। अग्रानीके तस्य चोभौ नरौ सुमुखदुर्मुखौ । मिथ्यादृशावापतन्तौ मिथो नानाकथापरौ ।। २७ ।। मार्गे प्रसन्नचन्द्रं तमेकपादप्रतिष्ठितम् ।। आतापनां प्रकुर्वाणमुर्ध्वबाहुमपश्यताम् ।। २८ ।। ।।युग्मम्॥ तं दृष्ट्वा सुमुखोऽवोचदहो आतापनाजुषः । अस्य स्वर्गोऽपवर्गो वा मुनेन खलु दुर्लभः ।। २९ ।। कर्मतो नामतश्चापि दुर्मुखः प्रत्यभाषत । प्रसन्नचन्द्रः खल्वेष भूपतिः पोतनेश्वरः ।। ३० ।। अस्य धर्मः कुतो येन राज्यभारेऽर्भकः सुतः । नियोजितो वत्सतर इवानसि महीयसि ।। ३१ ।। स चास्य सूनुः सचिवैर्दधिवाहनभूभुजा । चम्पानाथेन संभूय राज्यात्प्रच्यावयिष्यते ।। ३२ ।। राज्यधर्मः क्षतोऽनेन पन्योऽप्यस्य क्वचिद्गताः । अदर्शनीयस्तदसौ धृतपाखडिदर्शनः ॥३३॥ ध्यानपर्वतदम्भोलिमेवमाकर्ण्य तद्वचः । प्रसन्नचन्द्रो राजर्षिः सहसेति व्यचिन्तयत् ।।३४ ॥ धिगहो अकृतज्ञास्ते मंत्रिणो ये मया सदा । सत्कृता अपि मत्सूनोर्विभेदमधुना व्यधुः ।। ३५ ॥ अद्याभविष्यं चेत्तत्राशिक्षयिष्यं भृशं हि तान् । विकल्पैरित्यप्रसन्नः प्रसन्नो व्यस्मरव्रतम् ।।३६ ॥ स राजमानी मनसा योद्धं प्रववृते ततः । तत्र च श्रेणिकः प्राप्तो ववन्दे विनयेन तम् ।। ३७ ॥
प्रसन्न
चरित्रम् ।
।२६४॥