________________
त्रिषष्टिशलाका
पुरुषचरिते
| दशमं पर्व नवमः सर्गः श्रीमहावीरजिनचरितम् ।
२६३॥
सौ मे धर्माचार्यो पितः । सोऽवोचगौतमबाज प्रययौ चानुगा
अथाख्यद्गौतमोऽस्तीह मम विश्वगुरुर्गुरुः । चतुस्त्रिंशदतिशयः सर्वज्ञश्चरमो जिनः ॥ ११ ॥ तच्छ्रुत्वा हालिकमुनिः सर्वज्ञे प्रीतिमुद्वहन् । उपार्जयद्बोधिबीजं प्रययौ चानुगौतमम् ॥ १२ ॥ प्रभुं प्रेक्ष्य च संक्रुद्धः सिंहादिभववैरतः । सोऽवोचद्गौतममुनि भगवन् ! कोऽयमग्रतः ? ॥ १३ ॥ जगाद गौतमोऽसौ मे धर्माचार्यो जिनेश्वरः । सोऽप्यूचे चेद्गुरुस्तेऽसौ तदा नार्थस्त्वयाऽपि मे ॥ १४ ॥ त्वद्दीक्षयाऽप्यलमिति स रजोहरणादिकम् । त्यक्त्वा ययौ निजक्षेत्रे सीरादि पुनराददे ॥ १५ ॥ स्वामिनं गौतमो नत्वा पप्रच्छ भगवन्निदम् । आश्चर्यमेष विद्वेषी लोकानन्देऽपि यस्त्वयि ।। १६ ।। प्रतिपन्नं स्वयमपि व्रतं प्रोज्झितवानसौ । युष्मदालोकनादेव कारणं तत्र नाथ ! किम् ? ।। १७ ।। मय्यसौ प्रीतिमान् पूर्वं गुरुर्मेऽसावितीरिते । त्वयि नाथ ! झगित्येव द्वेष्यजायत मय्यपि ।। १८ ।। स्वाम्यथाऽऽख्यन्मया सिंहो यस्त्रिपृष्ठेन दारितः । क्रोधात् स्फुरंस्त्वया साम्ना शान्तः सारथिना मेम ॥ १९ ॥ तत्प्रभृत्येष मद्वेषी जज्ञे स्निग्धः पुनस्त्वयि । तत्प्रैषयं गौतम ! त्वां बोधिबीजकृतेऽस्य हि ॥ २० ॥ एवमाख्याय भगवान् प्रययौ पोतनं पुरम् । मनोरमाभिधोद्याने तबहिः समवासरत् ॥२१ ॥ प्रसन्नचन्द्रो जिनेन्द्रं वन्दितुं पोतनेश्वरः । समाजगामाश्रौषीच्च देशनां मोहनाशिनीम् ॥ २२ ॥ स्वामिदेशनया बुद्धो भवोद्विग्नः स भूपतिः । बालमप्यात्मजं राज्ये निधाय व्रतमाददे ।।२३ ॥ १ चात्र । २ ततः ।
हालिकवृत्तान्तः ।
I२६३॥