________________
त्रिषष्टि
शलाका
पुरुषचरिते
।।२६२ ।।
नवमः सर्गः ।
इतश्च यः सुदंष्ट्राहिकुमारो नौजुषः प्रभो । उपसर्गानकृत स क्वचिद् ग्रामेऽभवद्धली ।। १ ।। स कृष्याजीवकोऽन्येद्युः सीरेण क्रष्टुमुर्वराम् । यावत्प्रवृत्तस्तावत्तं श्रीवीरो ग्राममाययौ ॥ २ ॥ स्वामिना तस्य बोधाय प्रेषितो गौतमोऽवदत् । किमिदं क्रियते ? दैवनियुक्तमिति सोऽब्रवीत् ॥ ३ ॥ भूयोऽपि गौतमोऽवोचत् क्षुद्रजीविकयाऽनया । जीवतस्तव किं सौख्यं ? किं वा सुचरितं भवेत् ! ॥ ४ ॥ न केवलमिहैवेदं कष्टकृद्भद्र ! कर्म ते । प्राणातिपातभूयिष्ठं कष्टायान्यभवेष्वपि ।। ५ ।। कर्मणोऽमुष्य कष्टस्य कष्टं लक्षांशतोऽपि हि । क्रियते धर्मकार्ये चेत्कष्टान्तः स्यात्तदा खलु ।। ६ ।। इत्यादि गौतमेनोक्तः स ऊचे साध्वहं त्वया । बोधितोऽद्य भवोद्विग्नं परिव्राजय मां ततः ॥ ७ ॥ प्रबुद्ध इति विज्ञाय गौतमस्तमदीक्षयत् । गन्तुं श्रीवीरपादान्ते समं तेन चचाल च ॥ ८ ॥ पप्रच्छ हालिकर्षिस्तं गन्तव्यं भगवन् ! क्कनु । गौतमोऽप्यवदत् साधो ! गन्तव्यमुपमद्गुरु ॥ ९ ॥ हालिकोऽप्यब्रवीदेवं न तुल्यः कोऽपि ते ध्रुवम् । तवापि किं गुरुः कोऽपि ! स च स्यात्कीदृशो ननु ? ॥ १० ॥
दशमं पर्व
नवमः
सर्गः श्रीमहावीर
जिन
चरितम् ।
हालिकवृत्तान्तः ।
॥२६२॥