________________
त्रिषष्टिशलाकापुरुषचरिते IR५९॥
दशमं पर्व | अष्टमः सर्गः श्रीमहावीर| जिनचरितम् ।
ईश्वरोऽचिन्तयच्चैवं जीवा अवनिकायिकाः । सर्वत्रापि विमृद्यन्ते को हि तान् रक्षितुं क्षमः ।। ५२४ ।। अश्रद्धेयमिदं वाक्यं लाघवायास्य केवलम् । श्रुत्वाऽप्यदोऽनुतिष्ठेत् क उन्मत्तस्येव भाषितम् ।। ५२५ ॥ मुक्त्वेदं यद्यसौ किंचिच्छ्रामण्यं मध्यपक्षगम् । समाख्याति तदा नूनं लोकः सर्वोऽपि रज्यति ।। ५२६ ।। यद्वा हा! हा! हतोऽस्मीति नानुतिष्ठाम्यहं यदि । जनोऽपि नानुतिष्ठेत् किं सर्वज्ञैर्भाषितं ह्यदः ।। ५२७ ।। अर्हद्वाक्यान्यथाकारप्रायश्चित्तं मयाऽधुना । ग्राह्यमित्यगमत्तं प्रत्येकबुद्धं महामुनिम् ।। ५२८ ।। तस्यापि धर्मव्याख्याने सोऽौषीद्यन्मुनिस्त्यजेत् । पृथिवीकायमुख्यानां समारम्भ त्रिधाऽपि हि ॥५२९ ।। ईश्वरोऽचिन्तयत्कोऽमूनाऽऽरभेत तथा ह्यसौ । पृथ्व्यां निषीदत्यनाति चाग्निपक्वं पिबत्यपः ।। ५३०॥ आत्मन्यपि विसंवादि तद्वदत्येष कद्वदः । वरं गणधरः सोऽस्तु यद्वा सोऽपि विरुद्धवाक् ।। ५३१ ।। अमूभ्यां तदलं द्वाभ्यां धर्मं वक्ष्यामि तं स्वयम् । अविरक्तः सुखसुखमनुष्ठास्यति यं जनः ।। ५३२ ॥ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत् पपात खात् । मृत्वा च सप्तमावन्यामुदपादि स नारकः ।। ५३३ ॥ श्रुतशासनसम्यक्त्वप्रत्यनीकत्वपापजम् । दुःखं तत्र चिरं भुक्त्वा मत्स्यः सोऽब्धाविहाभवत् ।। ५३४ ।। भूयोऽगात्सप्तमोया सोऽत्रैत्य काकः खगोऽभवत् । ततोऽगात् प्रथमावन्यां दुष्टश्चात्रैत्य चाभवत् ।। ५३५ ॥ भूयोऽगात्प्रथमावन्यां खरोऽभूदत्र षड्भवान् । ततो मनुष्यः संजज्ञे मृतो नाऽभूद्वनेचरः ।। ५३६ ।। १ पिबेत्ययः ।
गोशालस्य पूर्वभवाः ।
| ॥२५९॥