________________
त्रिषष्टिशलाका
पुरुषचरिते
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
२६०॥
ततो मृत्वा बिडालोऽभूत्ततोऽपि नरकं ययौ । उद्धृत्य चाक्रिकोऽत्राभूतु कुष्ठी कृम्याकुलस्ततः ।। ५३७ ।। स पञ्चाशतमब्दानि भक्षितः कृमिभिर्मृतः । अकामनिर्जरायोगाद्देवत्वं प्रत्यपद्यत ।। ५३८ ॥ ततश्च्युतो नृपः सोऽभून्मृत्वाऽगात्सप्तमावनिम् । नृतिर्यङ्नरकेष्वेवं भ्रान्त्वा गोशालकोऽभवत् ।। ५३९ ।। एवं पूर्वभवाभ्यासवासनावेशतः स तु । तीर्थकृद्धर्मसाधूनां प्रत्यनीकोऽभवद् भृशम् ।। ५४०॥ इति स्वामिवचः श्रुत्वाऽबुध्यन्त बहवो जनाः । प्राव्रजंश्च भवोद्विग्नाः श्रावकत्वं च केऽप्यधुः ॥५४१ ।। स्वामी तु रक्तातीसारपित्तज्वरवशात् कृशः । गोशाललेश्यया जज्ञे चकार न तु भेषजम् ।। ५४२ ।। गोशालतेजसा वीरः षण्मासान्तर्विपत्स्यते । इति लोकप्रवादोऽभूत्तादृगामयदर्शनात् ॥ ५४३ ।। तं च श्रुत्वा स्वामिशिष्यः सिंहो नामानुरागवान् । गत्वैकान्ते रुरोदोच्चैः क्व धैर्य तादृशा गिरा।।५४४॥ केवलेन प्रभुर्ज्ञात्वा तमाहूयेदमब्रवीत् । जनप्रवादात् किं भीतः साधो ! संतप्यसे हृदि ।। ५४५ ॥ न ह्यापदा तीर्थकृतो विपद्यन्ते कदाचन । किं न संगमकादिभ्य उपसर्गा वृथाऽभवन् ।। ५४६ ।। उवाच सिंहो भगवन् ! यद्यप्येवं तथापि हि । आपदा वोऽखिलः स्वामिञ्जनः संतप्यतेतराम् ।। ५४७ ।। मादृशां दुःखशान्त्यै तत् स्वामिन्नादत्स्व भेषजम् । स्वामिनं पीडितं द्रष्टुं न हि क्षणमपि क्षमाः ।। ५४८ ॥ तस्योपरोधात्स्वाम्यूचे रेवत्या श्रेष्ठिभार्यया । पक्व कूष्माण्डकटाहो यो मह्यं तं तु मा ग्रहीः ।। ५४९ ॥ १°नावश ।
गोशालस्य पूर्वभवाः ।
&
R६०॥