________________
त्रिषष्टिशलाकापुरुषचरिते २५८॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
स्वशिष्यान् बोधयित्वैवं विहरन्नवनीतलम् । कर्मक्षयेण गोशालजीवो निर्वाणमेष्यति ॥ ५११ ॥ भूयोऽपि गौतमोऽपृच्छत् केन प्राग्जन्मकर्मणा । प्रत्यनीको बभूवैवं गोशालो भगवंस्तव ।। ५१२।। अथाऽऽख्यद्भगवानत्र जंबूद्वीपेऽत्र भारते । प्राक्चतुर्विंशतावर्हन्नुदायो नामतोऽभवत् ।। ५१३ ।। तस्य मोक्षमहिमानं कर्तुमीयुः सुरासुराः । प्रत्यन्तवासी तानेकः प्रेक्ष्य जातिस्मरोऽभवत् ।। ५१४ ॥ प्रत्येकबुद्धः प्रावाजीत् स तदैव महाशयः । आर्पयद् व्रतलिंगं च तस्मै शासनदेवता ॥ ५१५ ॥ तप्यमानं तपस्तीव्र पूज्यमानं जनैश्च तम् । दृष्ट्वोपेत्येश्वरो नाम तं पप्रच्छाऽतिदुर्मतिः ।। ५१६ ।। केन त्वं दीक्षितः ? कूत्रोत्पन्नः ? किं वा कुलं तव ? | कुतो वा सूत्रमर्थं च समुपार्जितवानसि ? ॥५१७ ।। प्रत्येकबुद्धः स महामुनिराख्यदशेषतः । दध्यौ चेतीश्वरो नूनं दंभेनात्ति प्रजामसौ ।। ५१८ ।। मन्ये यादृगनेनोक्तं तादृग्वक्ता जिनोऽपि हि । यद्वाऽपमोहो नेदृक्षं स वदेद्यामि तं ततः ॥५१९ ।। प्रव्रज्यामभिनन्दामि सर्वदुःखापहामिति । ध्यात्वैवं स ययौ तत्र न चापश्यज्जिनेश्वरम् ॥ ५२० ॥ पार्श्वे गणधरस्याथ प्रव्रज्यां स उपाददे । मोहगर्भितवैराग्यः कपिवन्मन्दबुद्धिकः ।। ५२१ ॥ मोक्षप्राप्ते जिने पर्षद्यासीनो गणभृज्जगौ । यावज्जिनोक्तसूत्रार्थमालापस्तावदित्यभूत् ।। ५२२ ॥ अप्येकं पृथिवीजीवं विनाशयति यः खलु । असंयतः समाख्यातो जैनेन्द्रे स हि शासने ।। ५२३ ।। १°क्षं प्रा।
गोशालस्य पूर्वभवाः ।
।२५८॥