________________
त्रिषष्टिशलाकापुरुषचरिते IR५७॥
दशमं पर्व अष्टमः साः श्रीमहावीरजिनचरितम् ।
महापद्मोऽपि निर्दग्धः सप्तमोवीं गमिष्यति । क्रमादुत्पत्स्यते द्विर्द्विः सर्वेषु नरकेषु सः ॥ ४९८ ॥ तिर्यग्जातिषु सर्वासूत्पत्स्यतेऽथ मुहुर्मुहुः । स शस्त्रवध्यः सर्वत्र दाहार्तश्च मरिष्यति ।। ४९९ ।। इत्थं कालमनन्तं तु भवान् भ्रान्त्वाऽतिदुःखदान् । स समुत्पत्स्यते वेश्या बही राजगृहात्पुरात् ।। ५०० ।। सुप्ता भूषणलुब्धेन कामिना सा हनिष्यते । भूयो राजगृहस्यान्तर्वेश्या भूत्वा विपत्स्यते ।। ५०१ ॥ स विन्ध्यमूले वेभेले सन्निवेशे भविष्यति । विप्रकन्याऽथ विप्रेण केनापि परिणेष्यते ।। ५०२ ।। गुर्विणी श्वशुरगृहादायान्ती दाववह्निना । मार्गे दग्धोत्पत्स्यतेऽग्निकुमारेषु सुरेषु सा ।। ५०३ ।। ततोऽपि मानुषो भावी प्रव्रज्यां च ग्रहीष्यति । विराधितश्रामण्य सन्नसुरेषु भविष्यति ।। ५०४ ।। पुनः पुनर्मर्त्यभवान् कतिचित्प्राप्य सोऽसकृत् । विराधितश्रामण्यः सन् भविष्यत्यसुरादिषु ॥५०५ ।। पुनश्च मानुषीभूयातीचाररहितं व्रतम् । पालयित्वा स सौधर्मे कल्पे देवो भविष्यति ।। ५०६ ॥ एवं सप्तभवान् यावच्छ्रामण्यमनुपाल्य सः । कल्पे कल्पे समुत्पद्य सर्वार्थमपि यास्यति ।। ५०७ ।। ततश्च्युत्वा विदेहेषु भूत्वाऽऽढ्यतनयः सुधीः । दृढप्रतिज्ञो नाम्ना स विरक्तः प्रव्रजिष्यति ।। ५०८ ।। स जातकेवलो ज्ञात्वाऽऽगोशालकभवान्निजान् । गुर्ववज्ञामुनिवधमूलान् शिष्येषु शंसिता ।। ५०९ ।। 'निर्देक्ष्यति च शिष्येभ्यो गुर्ववज्ञादि सर्वथा । न कार्यमन्वभूवं हि तत्फलानि बहून् भवान् ।।५१०॥ १ निदे । निदेष्य । निदिष्य ।
गोशालस्य आगामिभवाः ।
||२५७॥