________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२५६॥
कोपिष्यति (च) चेत्कोऽपि निरागस्ताडनान्मुनिः । स्वतेजसा तदा स त्वां सराष्ट्रमपि धक्ष्यति ॥ ४८५ ।। तैरित्युक्तो विना भावं तद्वचः प्रतिपत्स्यते । सोऽन्यदा तु रथारूढः क्रीडयोद्यानमेष्यति ।। ४८६ । स त्रिज्ञानं मुनिं सिद्धतेजोलेश्यं सुमंगलम् । कायोत्सर्गस्थितं तत्र द्रक्ष्यत्यातापनापरम् ।। ४८७ ।। सोऽथ निष्कारणक्रुद्धो विरुद्धः साधुदर्शने । तं रथाग्रेण पर्यस्य महर्षिं पातयिष्यति ।। ४८८ ।। स उत्थाय मुनिर्भूयः कायोत्सर्गं करिष्यति । तथैव भूपतिर्भूयस्तं पृथ्व्यां पातयिष्यति ।। ४८९ ।। उत्थाय स्थास्यति पुनः कायोत्सर्गे सुमङ्गलः । प्रयुज्य चाऽवधिं ज्ञात्वा तद्भवानिति वक्ष्यति ।। ४९० ॥ रे ! रे ! न देवसेनोऽसि न वा विमलवाहनः । स्मर गोशालकोऽसि त्वं सूनुर्मंखस्य मद्बलेः ।। ४९१ ।। येन चाऽऽशातितो धर्मगुरुश्चरमतीर्थकृत् । तच्छिष्यौ च परिप्लुष्टौ दुर्मदेन तदा त्वया ।। ४९२ ।। यथा हि तैस्तदा क्षान्तं क्षमिष्येऽहं तथा न हि । भूयः करिष्यसेऽदश्चेद्धक्ष्यामि त्वां क्षणात्तदा ।। ४९३ ॥ तेनेत्युक्तोऽधिकं दीप्तः सर्पिः सिक्त इवानलः । पातयिष्यति भूयोऽपि महापद्मः सुमङ्गलम् ॥ ४९४ ॥ क्रमानपेत्य सप्ताष्टान् स तेजोलेश्यया मुनिः । निधक्ष्यति महापद्मं सरथ्यरथसारथिम् ।। ४९५ ॥ तत्कर्माऽऽलोच्य स मुनिः पालयित्वा चिरं व्रतम् । अन्ते च मासानशनं कृत्वा सर्वार्थमेष्यति ।। ४९६ ।। त्रयस्त्रिंशत्सागरस्यायुषोऽन्ते स परिच्युतः । महाविदेहेषूत्पद्य दीक्षया मोक्षमेष्यति ।। ४९७ ।। अस्मिन् पादे एकम् अक्षरम् न्यूनं वर्तते । अष्टाक्षरप्रमाणे पादे सप्ताक्षरभवनेन ।
दशमं पर्व
अष्टमः
सर्गः
श्रीमहावीर
जिनचरितम् ।
गोशालस्य आगामि
भवाः ।
॥२५६ ॥