________________
त्रिषष्टिशलाका
पुरुषचरिते
।। २५५ ॥
भूयोऽपि गौतमोऽपृच्छत् स्वामिन्नीदृग्भिरप्यधैः । स दुरात्मा कथं देवो बभूवाश्चर्यमत्र मे ॥ ४७२ ॥ स्वाम्याचख्यौ निन्दति योऽवसाने दुष्कृतं निजम् । न दूरे तस्य देवत्वं गोशालोऽपि तथाऽकरोत् ॥ ४७३ ॥ पप्रच्छ गौतमोऽथैवं काले च्युत्वा तु सोऽच्युतात् । स्वामिन्नुत्पत्स्यते कुत्र कदा सिद्धिं च यास्यति ॥ ४७४ ॥ स्वाम्युवाचाऽत्रैव जम्बूद्वीपे वर्षे च भारते । भाव्युपविन्ध्यं पुंद्रेषु शतद्वारं महापुरम् ।। ४७५ ।। तत्र संमुचिभूपस्य भद्राकुक्षिभवः सुतः । गोशालजीवो भविता महापद्मोऽभिधानतः ॥ ४७६ ।। स च भावी महाराजस्तस्योभौ यक्षपुंगवौ । पूर्णभद्रमाणिभद्रौ सेनापत्यं करिष्यतः ।। ४७७ ॥ तस्यापरं गुणोद्भूतं देवसेन इति प्रजाः । नामधेयं करिष्यन्ति भागधेयमहानिधेः || ४७८ ॥ तस्योच्चैश्चक्रिण इवोत्पत्स्यतेऽद्भुततेजसः । हस्ती श्वेतश्चतुर्दन्त ऐरावण इवापरः ।। ४७९ ।। तत्राऽऽरुढवतस्तस्य तदृद्धिमुदिता जनाः । विमलवाहन इति करिष्यन्त्यभिधान्तरम् ।। ४८० ॥ तस्याऽन्यदा पूर्वभवाभ्यस्तर्षिद्वेषकर्मणा । उत्पत्स्यते श्रमणेषु नितान्तं दुष्टबुद्धिता ॥ ४८१ ।। निन्दनैस्ताडनैर्बन्धैरुड्डाहैर्हननैश्च सः । श्रुतमात्रान् दृष्टमात्रान्मुनीन् विनष्टयिष्यति ।। ४८२ ।। तं च विज्ञापयिष्यन्ति पौरामात्यादयोऽप्यदः । भूभुजां युज्यते दुष्टनिग्रहः साधुपालनम् ।। ४८३ ।। अमूंस्त्वनागसः साधून् भिक्षावृत्तींस्तपोधनान् । स्वामिन् ! न पासि चेन्मा स्म पासीस्तन्निग्रहस्तु किम् ॥ ४८४ ॥
१ न्ते ।
दशमं पर्व अष्टमः सर्गः
श्रीमहावीरजिनचरितम् ।
गोशालस्य
आगामि
भवाः ।
।।२५५ ।।