SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व अष्टमः सर्ग. श्रीमहावीरजिनचरितम् । IR५४॥ न केवलमयं स्वात्मा नरकायातिथीकृतः । किं त्वयं सकलो लोकोऽप्यसन्मार्गोपदेशतः ॥ ४५९ ।। भवत्वियत्यपि गते लोको यातु पथैव हि । विमृश्यैवं समाहूय शिष्यानेवमथावदत् ।। ४६०॥ भो ! भोः ! श्रृणुत सर्वेऽपि नाहमर्हन्न केवली । किं त्वस्मि मंखलिसुतो गोशालो वीरशिष्यकः ।। ४६१ ॥ आश्रयाशो वह्निरिव प्रत्यनीको गुरोरहम् । मया दंभादियत्कालमात्मा लोकश्च वंचितः ।। ४६२ ।। छद्मस्थोऽहं मरिष्यामि दह्यमानः स्वतेजसा । वामांघ्रौ रज्जुभिर्बद्ध्वा कर्षणीयः पुरीह भोः ।। ४६३ ।। निष्ठीवद्भिर्मम मुखे मां कर्षद्भिर्मृतश्ववत् । घोषणीयमिदं पुर्यां त्रिकश्रृंगाटकादिषु ॥ ४६४ ।। स एष मंखलिसुतो गोशालो दंभितप्रजः । मुनिघात्यजिनो दोषनिधानं गुरुतल्पगः ।। ४६५ ॥ जिनस्तु भगवान् वीरः सर्वज्ञः करुणानिधिः । हितोपदेष्टा न्यहोष्ट गोशालस्तं मुधैव हि ॥ ४६६ ॥ इत्यर्थे शपथं दत्त्वा व्यथया स व्यपद्यत । तच्छिष्याश्च कुलालोकोद्वाराणि पिदधुर्रिया ॥ ४६७ ।। श्रावस्तीमालिखस्तत्र शिष्याः शपथमुक्तये । तथा गोशालमाकर्षन् कुर्वन्तो घोषणादिकम् ।। ४६८ ॥ ततो निष्क्रमयामासुस्तद्गोशालकलेवरम् । ऋद्धया महत्या तच्छिष्याश्चक्रुश्च ज्वलनातिथिम् ।। ४६९ ।। प्रभुः श्रीवर्धमानोऽपि मेंढकग्राममभ्यगात् । चैत्ये च समवासार्षीत्तत्र कोष्टकनामनि ।। ४७० ॥ स्वामिनं तत्र चापृच्छत् समये गौतमो मुनिः । गोशालः कां गतिमगात् स्वाम्यूचे सोऽच्युतं गतः ।। ४७१ ॥ गोशालस्य मृत्युः। I२५४॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy