________________
त्रिषष्टिशलाका
एरुषचरिते
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिन
२५३॥
चरितम् ।
इत्युक्तस्तैरभिगन्तुं स प्रावर्तिष्ट तेऽपि हि । तस्याऽऽगमं संशयं च गोशालस्य पुरोऽवदन् । ४४६ ॥ तेऽन्यतो मद्यपात्रादि गोशालेन व्यमोचयन् । आसने चासयाञ्चक्रुस्तदा चाऽऽगादयंपुलः ।। ४४७ ।। ततो निषण्णमग्रे तमूचे गोशालकोऽपि हि । तृणगोपालिका किंसंस्थानेति तव संशयः ।। ४४८ ।। तृणगोपालिकां विद्धि वंशीमूलसमाकृतिम् । श्रुत्वेति मुदितः सद्योऽयंपुलः स्वाश्रयं ययौ ॥ ४४९ ।। अन्येधुश्चेतनां लब्ध्वा ज्ञात्वाऽन्तसमयं निजम् । शिष्यानाहूय गोशालो व्याजहारेति सादरः ।। ४५० ॥ मृतस्य मे वपुः स्नप्यं गन्धाम्भोभिर्विलेपनैः । सुगन्धिभिर्विलेप्यं चाऽऽमोच्यं चोत्कृष्टवाससा ।। ४५१।। भूष्यं च भूषणैर्दिव्यैरारोप्यं तदनन्तरम् । सहस्रवाह्यां शिबिकां ततो निःसार्यमुत्सवात् ।। ४५२ ।। अयमत्रावसर्पिण्यां चतुर्विंशो जिनेश्वरः । गोशालः प्रययौ मोक्षमित्युद्घोष्यं पुरेऽखिले ॥ ४५३ ।। ते तथा प्रत्यपद्यन्त गोशालोऽप्यहि सप्तमे । जातशुद्धाशयः पश्चात्तापादेवमचिन्तयत् ॥ ४५४ ।। अहो ! पापोऽहमर्हन्तं वीरं धर्मगुरुं निजम् । नितान्तमाशातितवास्त्रिधाऽप्यत्यन्तदुर्मतिः ।। ४५५ ॥ अभाणयं च सर्वज्ञमात्मानं सर्वतोऽपि हि । मृषोपदेशैः सत्याभैः सर्वं लोकं प्रतारयन् ।। ४५६ ।। धिङ्महर्षी मया दग्धौ गुरुगृह्यावुभौ च तौ । तेजोलेश्या स्वदाहायामुच्यत स्वामिने च धिक् ।। ४५७ ।। कृते दिनानां स्तोकानां किमकार्यं मया कृतम् । भूयिष्ठनरकावासविनिवासनिबन्धनम् ।। ४५८ ॥ १ वास्तस । त्वा तं स० । ०त्वातं स० ।
गोशालस्य
पश्चात्तापः ।
२५३॥