________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२५२ ॥
मदोन्मत्त गायति स्म गोशालो नृत्यति स्म च । हालाहलायाः प्रणतिं प्राञ्जलिश्चाकरोन्मुहुः ।। ४३४ ।। अंगरागीचकारांगे भाण्डार्थं मृदितां मृदम् । लुलोठ च गृहस्रोतोजले तच्चापिबन्मुहुः ।। ४३५ । असंबद्धविरुद्धानि प्रजजल्प वचांसि च । शिष्यः सशोकैः स उपचर्यमाणोऽत्यगाद्दिनम् ॥ ४३६ ॥ गोशालोपासकस्तत्रायंपुलो धर्मजागरम् । पूर्वरात्रापररात्रे कुर्वन्नेवं व्यचिन्तयत् ।। ४३७ ।। तृणगोपालिका किंसंस्थानेति न हि वेद्म्यहम् । गत्वा पृच्छामि गोशालं सर्वज्ञं गुरुमात्मनः ।। ४३८ ॥ एवं निश्चित्य गोर्गेऽनर्घ्यभूषणभृद्ययौ । हालाहलागृहेऽपश्यद्गोशालं च तथा स्थितम् ॥ ४३९ ।। लज्जयाऽथापचक्राम द्रुतद्रुतमयंपुलः । गोशालशिष्यैः स्थविरैर्दृष्टश्च जगदे च सः ।। ४४० ।। अयंपुलः ! निशायां ते पश्चिमायामजायत । तृणगोपालिकासंस्थाविषयः संशयः खलु ।। ४४१ ।। विस्मितः सोऽप्युवाचैवमेवमेतन्महर्षयः । गोशालचेष्टितं गोप्तुं ते भूयस्तं बभाषिरे ।। ४४२ ।। गायन्नृत्यन् पात्रपाणिरञ्जलिं च करोति यत् । निर्वाणप्राप्तिलिंगानि तदाख्याति गुरुस्तव ॥ ४४३ ॥ यदेतत् पश्चिमं गेयं नृत्यमञ्जलिकर्म च । पानं मृदंगरागादि यदन्यदपि किंचन ॥ ४४४ ॥ गोशालस्य चतुर्विंशस्यार्हतो मोक्षलक्ष्म तत् । गत्वाऽमुं पृच्छ सन्देहं सर्वज्ञो ह्येष ते गुरु: ।। ४४५ ॥
टि० *गोसर्गे प्रभाते । १ सर्गे ।
दशमं पर्व
अष्टमः सर्गः
श्रीमहावीर
जिनचरितम् ।
श्रीमहावीरो
परि गोशालकमुक्ततेजोलेश्या
वर्णनम् ।
॥२५२ ॥