________________
त्रिषष्टि
शलाका
पुरुषचरिते
।।२५१ ।।
तेजोलेश्याक्लिश्यमानवपुष्को विलपन्नथ । भूमौ पपात गोशालः शालगुरिव वायुना ।। ४२१ ।। गुर्ववज्ञाप्रकुपिता मुनयो गौतमादयः । एवं मर्माविधा वाचोच्चकैर्गोशालमूचिरे ।। ४२२ ।। धर्माचार्यप्रातिकूल्यभाजां भो ! भवतीदृशम् । तेजोलेश्या क्व तव सा धर्माचार्ये नियोजिता ? ॥ ४२३ ॥ सुचिरं विब्रुवाणोऽणि निघ्नन्नपि महामुनी । कृपयोपेक्षितो भर्त्रा स्वयमेव विपत्स्यसे ।। ४२४ ॥ व्यपत्स्यथाः पुराऽपि त्वं वैशिकायनलेश्यया । स्वलेश्यया शीतया त्वां नारक्षिष्यद्यदि प्रभुः ।। ४२५ ।। शार्दूल इव गर्ताऽन्तः पतितस्तेषु साधुषु । निःकर्तुं सोऽक्षमस्तस्थावुद्वेल्लनपरः क्रुधा ।। ४२६ ।। निःश्वसन् दीर्घमुष्णं च दंष्ट्रालोमानि चोत्खनन् । पादाभ्यां ताडयुन्नुर्वी हतोऽस्मीति मुहुर्बुवन् ॥ ४२७ ॥ निष्क्रम्य स्वामिसदसो दस्युवद्वीक्षितो जनैः । हालाहलाकुम्भकार्या गोशालोऽगमदापणम् ॥ ४२८ ॥ ॥ युग्मम् ॥ अथ स्वामी मुनीनूचे तेजो गोशालकेन यत् । अस्मद्वधाय प्रक्षिप्तं तस्येयं शक्तिरूर्जिता ।। ४२९ ॥ वत्साच्छ्कुत्समगधवंगमालवकोशलान् । पाटलाटवज्ज्रिमालिमलयाबाधकांगकान् ।। ४३० ॥ काशीन् सुह्मोत्तरान् देशान् निर्दग्धुं षोडशेश्वरा । तेजोलेश्या गोशालस्य तपसोग्रेण साधिता ।। ४३१ ॥ विसिष्मियिरे सर्वे मुनयो गौतमादयः । सन्तः शक्तौ परस्यापि मात्सर्यं न हि बिभ्रति ॥ ४३२ ॥ गोशालकोऽपि स्वेनैव दह्यमानोऽथ तेजसा । तापशान्त्यै पपौ मद्यं दधानो मद्यभाजनम् ।। ४३३ ॥
१ सह्योतं ।
दशमं पर्व अष्टमः सर्गः
श्रीमहावीरजिन
चरितम् ।
श्रीमहावीरो
परि गोशालकमुक्ततेजोलेश्यावर्णनम् ।
॥२५१ ।।