________________
त्रिषष्टिशलाकापुरुषचरिते IR५०॥
दशमं पर्व
अष्टमः ४ सर्गः
श्रीमहावीरजिनचरितम् ।
नाकरुण
| उप
गोशालमुक्तया तेजोलेश्यया प्रज्वलत्तनुः । प्रभुं प्रदक्षिणीकृत्याऽऽदाय भूयो व्रतानि च ।। ४०९ ।। आलोच्याथ प्रतिक्रम्य क्षमयित्वाऽखिलान्मुनीन् । सुनक्षत्रमुनिर्मृत्वाऽच्युतकल्पे सुरोऽभवत् ।। ४१०॥
।युग्मम् ॥ जितकाशी च गोशालस्ततोऽतिपरुषाक्षरम् । समाक्रोशन्निजगदे स्वामिना करुणाजुषा ।। ४११ ।। दीक्षितः शिक्षितश्चासि श्रुतभाक् च मया कृतः । ममैवावर्णवादी त्वं कोऽयम् ते धीविपर्ययः ? || ४१२ ॥ स्वामिना स्वयमित्युक्तो गोशालः कुपितो भृशम् । उपेत्य किंचिदमुचत्तेजोलेश्यां प्रभु प्रति ।। ४१३ ॥ स्वामिन्यप्रभविष्णुः सा महावात्येव पर्वते । प्रभुं प्रदक्षिणीचक्रे भक्तिभागनुहारिणी ॥४१४ ॥ संतापमात्रं स्वाम्यंगेऽभूत्तेजोलेश्यया तया । तीरकक्षोद्भवेनेव दावेन सरिदम्भसः ॥ ४१५ ।। अकार्याय प्रयुक्ता धिगनेनेति क्रुधेव सा । तेजोलेश्या निवृत्यांगे गोशालस्याविशद्बलात् ॥४१६ ॥ तयाऽन्तर्दह्यमानोऽपि गोशालो धार्यमाश्रितः । भगवन्तं महावीरमभ्यधत्तैवमुद्धतः ।। ४१७ ।। मत्तेजोलेश्यया ध्वस्तः षण्मासान्ते हि काश्यप ! पित्तज्वरपराभूतश्छद्मस्थोऽपि विपत्स्यसे ।। ४१८ ॥ स्वाम्यथोवाच गोशाल ! मृषा ते वागहं यतः । अन्यानि षोडशाब्दानि विहरिष्यामि केवली ॥ ४१९ ।। स्वतेजोलेश्ययैव त्वं पुनः पित्तज्वरार्दितः । विपत्स्यसे सप्तदिनपर्यन्ते नात्र संशयः ॥ ४२०॥
पर्वते
श्रीमहावीरोपरि गोशालकमुक्ततेजोलेश्यावर्णनम् ।
IR५०॥
१“ददे।