________________
त्रिषष्टिशलाकापुरुषचरिते IR४९॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
गोशालस्तव यः शिष्यः स हि शुक्लाभिजातिकः । धर्मध्यानस्थितो मृत्वा त्रिदशेषूदपद्यत ॥३९६ ॥ तद्देहेऽस्मिन्नुपसर्गपरीषहसहेऽविशम् । उदायनामाऽहमृषिः परित्यज्य निजं वपुः ।। ३९७ ॥ ततो मामपरिज्ञाय गोशालं मंखलेः सुतम् । स्वशिष्यं कथमाख्यासि न खल्वसि गुरुर्मम ॥३९८ ॥ स्वाम्यथोचे यथाऽऽरक्षैः क्रम्यमाणो मलिम्लुचः । गत दुर्ग वनं वाऽपि स्वान्तर्धानमवाप्नुवन् ।।३९९॥ ऊर्णालोम्ना शणलोम्ना तूलांशेन तृणेन वा । मन्यतेऽन्तरदत्तेनात्मानमावृतमल्पधीः ।। ४०० ॥ एवं त्वमपि गोशालोऽनन्योऽप्याख्यान् स्वमन्यथा । किमर्थं भाषसेऽलीकं स एवास्यपरो न हि ॥४०१ ॥ एवं स्वामिगिरा क्रुद्धो गोशालोप्यब्रवीत् प्रभुम् । अद्य भ्रष्येऽसि नष्टोऽसि न भवस्येष काश्यप! ।। ४०२ ॥ सर्वज्ञशिष्यः सर्वानुभूतिगुर्वनुरागतः । अक्षमस्तद्वचः सोढुं गोशालकमभाषत ॥४०३ ।। गुरुणा दीक्षितोऽनेन शिक्षितोऽस्यमुनैव हि । निहनुषे हेतुना केन गोशाल ! त्वं स एव हि ॥४०४ ॥ अथ गोशालकः कोपात्तेजोलेश्यामनाहताम् । सर्वानुभूतयेऽमुञ्चद् दृग्ज्वालामिव दृग्विषः ॥ ४०५ ॥ निर्दह्यमानः सर्वानुभूतिर्गोशाललेश्यया । शुभध्यानपरो मृत्वा सहस्रारे सुरोऽभवत् ।। ४०६ ॥ गोशालोऽपि हि तत्कालं स्वलेश्याशक्तिगर्वितः । निर्भर्त्सयितुमारेभे भगवन्तं पुनः पुनः ॥ ४०७ ॥ स्वामिशिष्यः सुनक्षत्रस्तमथ स्वामिनिन्दकम् । गुरुभक्त्याऽनुशास्ति स्म भृशं सर्वानुभूतिवत् ॥ ४०८ ॥ १ नान्यो।
श्रीमहावीरोपरि गोशालकमुक्ततेजोलेश्यावर्णनम् ।
IR४९॥