________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२४८ ॥
खातात्तस्मान्नाकुश्रृंगात् सद्यो द्रम्मा विनिर्ययुः । विभज्यावसरवर्जं चत्वारो जगृहुश्च तान् ॥ ३८३ ॥ चख्नुश्चतुर्थमपि ते श्रृंगं स्वर्णं च लेभिरे । ततो रजतमप्यौज्झन् सुवर्णादानलोभतः ।। ३८४ ।। रत्नानि पञ्चमे शृंगे भविष्यन्तीति बुद्धितः । चख्नुस्तदपि लोभान्धा लाभाल्लोभो हि वर्धते ।। ३८५ । अत्यन्तमथितादब्धेः कालकूट इवोत्कटः । तस्माच्छृंगात् खन्यमानादुत्तस्थौ दृग्विषोरगः ।। ३८६ ।। वल्मीकाग्रस्थितः सोऽहिः प्राक् सूर्यं प्रेक्ष्य तान्दृशा । भस्मीचकार चतुरः सगन्त्रीवृषभानपि ।। ३८७ ॥ निर्लोभ इत्यवसरं सगन्त्रीवृषमप्यथ । तस्याहेर्देव्यधिष्ठात्री प्रापयत् स्थानमीप्सितम् ॥ ३८८ ॥ धक्ष्यामि त्वद्गुरुं सर्पोऽधाक्षीत्तांश्चतुरो यथा । मोक्ष्यामि त्वामहम् सोऽहिर्मुमोचावसरं यथा ।। ३८९ ।। ततोऽसमाप्तभिक्षार्थ एवाऽऽनन्दो ययौ प्रभुम् । गोशालोक्तं तदाचख्यावपृच्छच्चेति शंकितः ।। ३९० ।। भस्मराशीकरिष्यामीत्युक्तं गोशालकेन यत् । उन्मत्तभाषितं तत् किं तत्कर्तुमथवा क्षमः ? ।। ३९१ ॥ अथाचचक्षे भगवानर्हद्भ्यः सोऽन्यतः क्षमः । अर्हतामपि सन्तापमात्रं कुर्यादनार्यधीः ।। ३९२ ॥ तद्गत्वा गौतमादीनां शंसेदं ते यथा हि तम् । इहागतं नोदनया धर्म्ययापि नुदन्ति न ॥ ३९३ ॥ तेषां गत्वाऽऽख्यदानन्दस्तदा गोशालकोऽपि हि । तत्राऽऽगात् स्वामिनोऽग्रे चावस्थाय व्यब्रवीदिति ॥ ३९४ ॥ भोः काश्यप ! वदस्येवं गोशालो मंखलेः सुतः । अन्तेवासी ममेत्यादि तन्मृषा भाषितं तव ।। ३९५ ।
१ नुदः ।
दशमं पर्व अष्टमः सर्गः
श्रीमहावीरजिनचरितम् ।
श्रीमहावीरो
परि गोशालकमुक्ततेजोलेश्यावर्णनम् ।
॥२४८ ।।