________________
त्रिषष्टि
शलाका
पुरुषचरि ॥२४७॥
मंखपुत्रमनर्हन्तमसर्वज्ञं च वक्ति माम् । तेजोलेश्यां न मे वेत्ति विपक्षदहनक्षमाम् ।। ३७० ।। भस्मराशीकरिष्यामि तमहं सपरिच्छदम् । त्वामेवैकं विमोक्ष्यामि दृष्टान्तोऽत्र निशम्यताम् ॥ ३७१ ।। अवसरः प्रसरश्च संवादः कारकस्तथा । भलनो वणिजोऽभूवन् क्षेमिलायां पुरा पुरि ॥ ३७२ ॥ भाण्डैरापूर्य शकटान्निर्ययुस्ते वणिज्यया । यान्तश्च निर्जलारण्यं विविशुः किंचिदध्वनि ॥ ३७३ ॥ पञ्चापि तृषाक्रान्ता मरुमार्गगता इव । जलं गवेषयामासुः पर्यटन्तो महाटवीम् ॥ ३७४ ॥ भ्राम्यन्नवसरः पञ्चशिखरं वामलूरकम् । ददर्शादर्शयत्तेषां चतुर्णां सुहृदामपि ।। ३७५ ।। ते तस्य पूर्वशिखरं संभूयाऽस्फोटयन् द्रुतम् । तस्माच्च लेभिरे वारि तत्पीत्वा सुस्थतां ययुः ॥ ३७६ ॥ अथोचे प्रसरोऽपाच्यश्रृंगमप्यस्य दीर्यताम् । लप्स्यामहे नूनमितो वस्त्वन्यदपि किंचन ॥ ३७७ ॥ अथाब्रवीदवसरः खननं नास्य युज्यते । उत्थास्यत्यहिरेतस्मान्नाकुरोको हि भोगिनाम् ।। ३७८ ।। अवादीदथ संवादो विसंवादोऽप्यभूदिह । यत्परिस्फोटितात्पूर्वशिखरान्नाहिरुत्थितः ।। ३७९ ।। भूयोऽप्यवसरोऽवोचद्दैवादहि पयोऽभवत् । अथोचे कारको दैवाद् द्रम्मा इह नु भाविनः ॥ ३८० ॥ इत्युदित्वा तत् खनितुं समारभत कारकः । मतं ममेदं नेत्युक्त्वा गन्त्रीमवसरो ययौ ।। ३८१ । बभाषे भलनो यातोऽवसरो यदि यातु तत् । विनाऽप्यमुं खनिष्याम इति सर्वेऽपि तेऽखनन् ॥ ३८२ ॥ टि० वामलूर:- वल्मीकः (राफडो इति गुर्जरभाषायाम्) + नाकुः वाल्मीकः ।
| दशमं पर्व अष्टमः सर्गः
श्रीमहावीरजिनचरितम् ।
श्रीमहावीरो
परि गोशालकमुक्ततेजोलेश्यावर्णनम् ।
॥२४७॥